________________
त्रिषष्टिशलाकापुरुषचरिते
॥७९॥
पुत्री सत्यवतीं नाम वरुणोऽदाद्धनूमते । दृष्टसारः स्वयं हीदृग्जामाता दुर्लभः खलु ।। ३०० ।। लङ्कायां रावणोऽथागाददत्त च हनूमते । हृष्टश्चन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ।।३०१ ।। सुग्रीवेण पद्मरागा नलेन हरिमालिनी । अन्यैः सहस्रसङ्ख्याश्च तस्मै दत्ताः स्वकाः सुताः ।। ३०२ ।।
श्लिष्ट्वा दृढं दशमुखेन मुदा विसृथे दोष्मानथो हनुपुरे हनुमाअगाम । अन्येऽपि वानरपतिप्रमुखाः प्रजग्मुर्विद्याधरा निजनिजं नगरं प्रहृष्टाः ।। ३०३ ।।
| सप्तम पर्व | तृतीयः |सर्गः रामलक्ष्मण रावणचरितम् ।
| हनुमत्सा
झाय्येन
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषधिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हनुमदुत्पत्ति-वरुणसाधनो नाम
तृतीयः सर्गः ।
| रावणस्य |जयः।
॥ ७९ ॥