________________
त्रिषष्टिशलाकापुरुषचरिते
७८॥
एवं तावतिनिर्बन्धात् प्रतीक्ष्याऽऽपृच्छ्य चोच्चकैः । ताभ्यां च चुम्बितो मूर्जि कृतप्रस्थानमङ्गलः ।। २८६ ।। महासामन्तसेनानीसेनाशतसमावृतः । प्रययौ रावणस्कन्धावारे दुर्वारविक्रमः ।। २८७ ।। ।। युग्मम् ।। हनुमन्तं समायातं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं मुदा स्वाङ्के निदधे दशकन्धरः ।। २८८ ।। अभ्यर्णे वरुणपुर्यास्तस्थौ युद्धाय रावणः । वरुणो वारणेयाश्च दोष्मन्तो निर्ययुः शतम् ।।२८९ ।। अभ्येत्य योधयामासू रावणं वरुणात्मजाः । सुग्रीवाद्यैः समं वीरैर्युयुधे वरुणोऽपि हि ॥ २९० ।। महौजसो वारुणयोऽरुणाक्षा दशकन्धरम् । जात्यश्वान इव क्रोड खेदयामासुराहवे ॥२९१.॥ अत्राऽन्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्धरः ।। २९२ ॥ विद्यासामर्थ्यतोऽस्तभ्नाद्वारुणींस्तान् बबन्ध च । पशूनिव क्रुधा रक्तहनुको हनुमानथ ॥ २९३ ॥ तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनुमते । सुग्रीवप्रभृतीन् धुन्वन् दन्ती मार्गतरूनिव ।।२९४ ।। रावणोऽप्यापतन्तं तं नदीरयमिवाऽचलः । अन्तरा स्खलयामास वर्षन् विशिखधोरणीम् ।। २९५ ॥ वृषभो वृषभेणेव कुञ्जरेणेव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् ।। २९६ ।। सर्वोजसाऽऽकुलीकृत्य वरुणं रावणश्छली । उत्पत्येन्द्रमिवाऽबध्नात् सर्वत्र बलवच्छलम् ।। २९७ ।। ततो जयजयारावैर्मुखरीकृतदिङ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः ।। २९८ ॥ रावणो वरुणं तत्र सह पुत्रैर्वशंवदम् । मुमोच प्रणिपातान्तः प्रकोपो हि महात्मनाम् ॥२९९ ॥ १ वरुणपुत्राः । २ किरिम् । ३ बाणश्रेणिम् ।
सप्तमं पर्व | तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
ASKHASRASHASASHRSHASIAN
| सर्वेषां मातुलगृहे
गमनम्,
हनुमत्साहाय्येन रावणस्य जयः ।
॥ ७८ ॥