________________
त्रिषष्टिशलाका
पुरुषचरि
॥७७॥
मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटुम्बकम् । समुद्धरंस्त्वमेवाऽसि बन्धुः सम्बन्धिनां धुरि ॥। २७१ ।। मद्वंशपर्वभूतेयं शाखासन्तानकारणम् । स्नुषा त्यक्ता विना दोषं साध्वियं रक्षिता त्वया ॥ २७२ ॥ सद्यो व्यसनवेलाया न्यवर्तत पयोधिवत् । प्रशान्तशोकज्वलनो मुदितः पवनोऽपि हि ।। २७३ ॥ विद्यासामर्थ्यतस्तत्र सर्वविद्याधरेश्वराः । महान्तमुत्सवं चक्रुरानन्दाब्धिनिशाकरम् ॥ २७४ ॥ पुरं हनुरुहं जग्मुस्ततः सर्वेऽपि ते मुदा । विमानैर्विदधानाः स्वैर्दिवं ज्योतिष्मतीमिव ।। २७५ ।। महेन्द्रोऽप्याययौ तत्र समं मानसवेगया । सा च केतुमती देवी सर्वेऽप्यन्ये च बान्धवाः ॥ २७६ ॥ विद्याधरेन्द्रैर्विदधे मिथः सम्बन्धिबन्धुभिः । पूर्वोत्सवादप्यधिकस्तत्राऽपि हि महोत्सवः ॥ २७७ ।। ततश्चाऽन्योऽन्यमापृच्छ्य सर्वे स्वं स्वं पुरं ययुः । तत्रैव पवनस्तस्थावञ्जनाहनुमद्युतः ।। २७८ ।। हनुमान् ववृधे तत्र पितुः सह मनोरथैः । कलाश्च जगृहे सर्वा विद्याश्च समसाधयत् ॥ २७९ ॥ नागराजायतभुजः शस्त्रशास्त्रविचक्षणः । क्रमाच्च यौवनं प्राप हनुमान् भानुमांस्त्विषा ।। २८० ॥ इतश्चाऽमर्षणप्रष्ठो रावणः सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्थेमपर्वतः ।। २८१ ।। दूताहुतास्ततश्चेयुः सर्वे विद्याधरेश्वराः । कंटकं तस्य कुर्वन्तो वैताढ्यकटकोपमम् ॥ २८२ ॥ पवनप्रतिसूर्यौ तौ तत्र यावत्प्रचेलतुः । इत्यूचे हनुमांस्तावदवष्टम्भैकसानुमान् ॥ २८३ ॥ इहैव तिष्ठतं तातौ जेष्याम्यहमपि द्विषः । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? ॥ २८४ ॥ बालत्वान्नाऽनुकम्प्योऽस्मि यद्युष्मत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वयः खलु ॥ २८५ ॥ १ क्रोधवत्सु श्रेष्ठः । २ स्थैर्यपर्वतः । ३ सैन्यम् । ४ गिरिमध्यभागः कटकम् ।
सप्तमं पर्व
तृतीयः
सर्गः
रामलक्ष्मणरावणचरितम् ।
हनुमत्सा
हाय्येन
रावणस्य जयः ।
।। ७७ ।।