________________
त्रिषष्टिशलाकापुरुषचरिते
॥७६॥
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
स्नुषान्वेषणहेतोश्चाऽऽदिष्टाः सन्ति सहस्रशः । विद्याधरा मया वत्साऽऽगमयस्व तदागमम् ।। २५६ ॥ अत्राऽन्तरे तत्प्रहिताः केऽपि विद्याधरोत्तमाः । गवेषयन्तः पवनाञ्जने हनुपुरं ययुः ॥२५७ ॥ प्रतिसूर्याञ्जनयोस्तेऽअनाविरहदुःखतः । पवनस्याऽग्निप्रवेशप्रतिज्ञामाचचक्षिरे ॥२५८ ॥ दुःश्रवं तद्वचः श्रुत्वा पीत्वा विषमिवाऽअना । हा हताऽस्मीति जल्पन्ती पपात भुवि मूर्छिता ।। २५९ ।। आसिक्ता चन्दनाम्भोभिस्तालवृन्तैश्च वीजिता । लब्धसञ्ज्ञा समुत्थाय सा रुरोदेति दीनगीः ।। २६० ।। पतिव्रताः पतिशोकात् प्रविशन्ति हुताशने । तासां विना हि भर्तारं दुःखाय खलु जीवितम् ।। २६१ ।। नारीसहस्रभोक्तॄणां भर्तृणां श्रीमतां पुनः । क्षणिकः प्रेयसीशोकस्तत्कुतोऽग्निप्रवेशनम् ।। २६२ ।। विपरीतमिदं जज्ञे त्वयि वह्निप्रवेशिनि । विरहेऽपि मयि पुनर्हा जीवन्त्यामियच्चिरम् ॥२६३ ॥ महासत्त्वस्य तस्याऽल्पसत्त्वायाश्च ममाऽन्तरम् । उपलब्धमिदं नीलकाचयोरिव सम्प्रति ।। २६४ ।। न मे श्वशुरयोर्दोषो दोषः पित्रोर्न चाऽप्ययम् । ममैव मन्दभाग्यायाः कर्मदोषोऽयमीदृशः ।। २६५ ।। रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्दनाम् । विमानवरमारोप्य पवनान्वेषणे ययौ ।। २६६ ॥ स भ्राम्यन् प्राप तत्रैव वने भूतवनाभिधे । दूरादपि प्रहसितेनेक्षाञ्चक्रे च साश्रुणा ॥२६७ ॥ साञ्जनं तं समायान्तमारात् प्रहसितः स तु । आख्यत्प्रह्लादपवनञ्जययोर्जयपूर्वकम् ।। २६८ ॥ ततो विमानादुत्तीर्य प्रतिसूर्योऽञ्जनाऽपि च । प्रह्लादं नेमतुर्दुराद्भक्त्या भून्यस्तमस्तकौ ॥२६९ ॥ प्रतिसूर्यं परिष्वज्य पौत्रमङ्के निवेश्य च । प्रह्लादो जातसंह्लादो जगादैवं ससम्भ्रमः ।। २७० ।। १नीलमणेः काचस्य च ।
प्रतिसूर्याञ्जन| योरागमनम् ।
॥७६ ॥