________________
त्रिषष्टिशलाकापुरुषचरिते
७५॥
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
पवनोऽत्राऽन्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रहादस्तं ददर्श च ।। २४१ ।। स्थित्वोपचितं पवनः प्रोचे हे वनदेवताः ! । विद्याधरेन्द्रप्रह्लादकेतुमत्योः सुतोऽस्म्यहम् ।। २४२ ।। महासत्यञ्जना नाम पत्नी मे सा च दुर्धिया । निर्दोषाऽपि मयोद्वाहात्प्रभुत्यपि हि खेदिता ।। २४३ ।। तां परित्यज्य यात्रायां चलितः स्वामिकार्यतः । दैवाज्ज्ञात्वा तामदोषामुत्पत्य पुनरागमम् ।। २४४ ।। रमयित्वा च तां स्वैरमभिज्ञानं समर्प्य च । पितृभ्यामपरिज्ञातः पुनः कटकमापतम् ।। २४५ ॥ जातगर्भा च सा कान्ता मद्दोषाद्दोषशङ्किभिः । निर्वासिता मे गुरुभिः क्वाऽप्यस्तीति न बुध्यते ।। २४६ ।। साऽग्रेऽधुना च निर्दोषा सम्प्राप्ता दारुणां दशाम् । ममैवाज्ञानदोषेण धिग्धिक पतिमपण्डितम् ।। २४७ ।। मया भ्रान्त्वाऽखिलां पृथ्वी सम्यङ् मार्गयताऽपि हि । न साऽऽप्ता मन्दभाग्येन रत्न रत्नाकरे यथा ।। २४८ ॥ तदद्य स्वां तनुमिमां जुहोम्यत्र हुताशने । जीवतो मे यावज्जीवं दुःसहो विरहानलः ।। २४९ ।। यदि पश्यथ मे कान्तां ज्ञापयध्वं तदा ह्यदः । त्वद्वियोगात्तव पतिः प्रविवेश हुताशने ।। २५० ॥ इत्युक्त्वा तत्र चित्यायां दीप्यमाने हविर्भुजि । झम्पां प्रदातुं पवनः प्रोत्पपात नभस्तले ।। २५१ ॥ श्रुततद्वचनो वेगात् प्रह्लादोऽप्यतिसम्भ्रमी । वक्षःस्थलोपपीडं तं स्वबाहुभ्यामधारयत् ॥ २५२ ॥ मृत्योः प्रियवियोगार्तिप्रतीकारस्य सम्प्रति । को विघ्नोऽयं ममेत्युच्चैरुवाच पवनञ्जयः ।।२५३ ॥ प्रह्लादोऽप्यब्रवीत्साश्रुरेष पापोऽस्मि ते पिता । निर्दोषाया यः स्नुषाया निर्वासनमुपैक्षत ॥२५४ ।। अविमृश्य कृतं तावत्त्वन्मात्रैवैकमादितः । द्वितीयं मा कृथास्त्वं तु स्थिरीभव सुधीरसि ।।२५५ ॥ १ चितासमीपम् ।
पवनस्य चिताप्रवेशनसङ्कल्पः ।
॥७५ ।।