________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
७४॥
इति श्रुत्वाऽथ पवनो ययौ पवनरंहसा । पारापत इव प्रेयस्युत्कः श्वशुरपत्तनम् ।। २२६ ॥ प्रियामपश्यंस्तत्राऽपि पप्रच्छैकां स योषितम् । इहाऽअना प्रेयसी मे किमायाताऽथवा न हि ? || २२७ ।। साऽऽचख्याविह साऽऽयासीद्वसन्ततिलकान्विता । परं निर्वासिता पित्रोत्पन्नदौःशील्यदोषतः ।। २२८ ।। पविनेवाऽऽहतस्तेन वचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्राम्यद् भृशं शैलवनादिषु ।। २२९ ।। तत्प्रवृत्तिं न च प्राप शापभ्रष्ट इवाऽमरः । विषण्णः स जगादैवं मित्रं प्रहसितं निजम् ।। २३० ॥ सखे ! गत्वा शंस पित्रोमा॑म्यतापि महीमिमाम् । मयाऽद्य यावदालोकि न क्वाऽपअनसुन्दरी ।।२३१ ।। पुनर्गवेषयिष्यामि तामरण्ये तपस्विनीम् । द्रक्ष्यामि चेत्साधु तर्हि नो चेद्वेक्ष्यामि पावकम् ।। २३२ ।। एवमुक्तः प्रहसितो गत्वाऽऽदित्यपुरे द्रुतम् । प्रह्लादकेतुमत्योस्तत् कथयामास वाचिकम् ॥२३३ ॥ श्रुत्वा केतुमती तच्च ग्राव्णेव हृदये हता । मूर्छिता न्यपतद् भूमौ सञ्ज्ञां लब्ध्वेत्युवाच च ।। २३४ ।। स किं त्वया प्रहसित ! व्यापत्तौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशय ! ।।२३५ ॥ अथवा किं मया साऽपि निर्दोषा परमार्थतः । अविमृष्य विधायिन्या पापिन्या निरवास्यत ।। २३६ ।। लब्धं मयाऽत्रैव साध्व्या दोषारोपणजं फलम् । अत्युग्रपुण्यपापानामिहैव ह्याप्यते फलम् ।। २३७ ।। एवं रुदन्ती प्रह्लादस्तां निवार्य कथञ्चन । चचाल सबलः सूनुमन्वेष्टुं स इवाऽअनाम् ॥२३८ ।। सर्वविद्याधरेन्द्राणामाप्तानां चाऽन्तिके नरान् । अञ्जनापवनान्वेषहैते प्रजिघाय सः ।। २३९ ॥ सह विद्याधरैः सूनुं स्नुषां चाऽऽलोकयन् स्वयम् । प्रादुर्भूतत्वरो भ्राम्यन् सोऽगाद् भूतवनं वनम् ।। २४० ॥ १ प्रियायामुत्सुकः । २ प्रवेशं करिष्यामि । ३ दृषदा । ४ प्रादुर्भूता त्वरा यस्य सः ।
पवनस्य स्वग्रामगमन मञ्जनाया अन्वेषणञ्च ।
।। ७४ ।।