________________
| सप्तमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
७३॥
सर्गः रामलक्ष्मणरावणचरितम् ।
पपात च गिरेर्मूर्धिन व्योम्नः पविरिव च्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् ।। २११ ।। आजघ्ने हृदयं सद्यः पाणिनाऽञ्जनसुन्दरी । दरीरपि प्रतिरवै रोदयन्ती रुरोद च ।। २१२ ।। प्रतिसूर्योऽनुपत्याऽऽशु भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्पयन्नष्टनिधानवत् ।। २१३ ॥ प्रतिसूर्यो विमानेन मनोवेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहोत्सवे ।। २१४ ।। नीत्वा चोत्तारयामास स्ववेश्मन्यञ्जनां मुदा । कुलदेवीमिवाऽऽयातां तच्छुद्धान्तोऽप्यपूजयत् ॥२१५ ॥ पुरे हनुरुहे यस्माज्जातमात्रोऽयमाययौ । तत् सूनोर्मातुलश्चक्रेऽभिधानं हनुमानिति ।। २१६ ॥ यच्छैलश्चूर्णितोऽनेन पतितेन विमानतः । ततः श्रीशैल इत्याख्यां तस्याऽन्यामपि सोऽकरोत् ।। २७७ ।। हनुमानप्यवर्धिष्ट तत्र क्रीडन् यथासुखम् । राजहंसार्भक इव मानसाम्भोजिनीवने ॥ २१८ ॥ दोषोऽध्यारोपितः श्वश्र्वा कथं नामोत्तरिष्यति ? । सदैव चिन्तयाऽताम्यदन्तःशल्येय चाऽञ्जना ।।२१९ ।। इतश्च पवनः सन्धिं विधाय खरदूषणौ । वरुणान्मोचयामास तोषयामास रावणम् ।। २२० ।। ततश्च रावणो लङ्कां जगाम सपरिग्रहः । पवनोऽपि तमापृच्छ्य स्वमेव पुरमाययौ ।। २२१ ॥ प्रणम्य पितरौ तत्राऽञ्जनावासगृहं ययौ । तच्चाऽनञ्जनमद्राक्षीद्गतज्योत्स्नमिवोडुपम् ।। २२२ ॥ क्वाऽञ्जना सा नयनयोरमृताअनदर्शना । मत्प्रेयसीति तत्रस्थामेकां पप्रच्छ च स्त्रियम् ।। २२३ ॥ साऽप्याख्यत्त्वयि यात्रायां गतेऽहस्सु कियत्स्वपि । निर्वासिता केतुमत्या गर्भसम्भवदोषतः ।। २२४ ।। महेन्द्रनगरासन्ने सा नीत्वाऽऽरक्षपूरुषैः । अरण्ये मुमुचे पापैर्हरिणीव भयाकुला ।। २२५ ॥ १ गुहाः ।२ तस्यान्तःपुरम् । ३ अञ्जनारहितम् ।
अञ्जनान्वेषणम् ।
॥ ७३ ॥