________________
त्रिषष्टिशलाकापुरुषचरिते
॥७२॥
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अथाऽऽविवाहादापुत्रजन्माऽऽचख्यावशेषतः । अञ्जनाया दुःखहेतुं बाष्पायितमुखी सखी ।। १९९ ॥ सद्यो रुदन सोऽप्यवादीदहं हनुपुरेश्वरः । एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चित्रभानुजः ॥२०० ।। भ्राता मानसवेगाख्यस्त्वज्जनन्याश्च बालिके! । दिष्ट्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥२०१ ।।
॥युग्मम् ॥ तं मातुलं विदित्वा साऽप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत्प्रायो दुःखमिष्टावलोकनात् ।। २०२ ॥ रुदन्तीं वारयित्वा तां प्रतिसूर्यः सहागतम् । सूनोर्जन्मादि पप्रच्छ दैवज्ञमथ सोऽवदत् ।। २०३ ॥ भाव्यवश्यं महाराजो भवे चाऽत्रैव सेत्स्यति । शुभग्रहबले लग्ने जातोऽयं पुण्यभाक् शिशुः ।। २०४ ।। तथाहि सुतिथिरियं चैत्रस्य बहुलाष्टमी । नक्षत्रं श्रवणं स्वामी वासरस्य विभावसुः ॥२०५ ।। आदित्यो वर्तते मेषे भवनं तुङ्गमाश्रितः । चन्द्रमा मकरे मध्ये भवने समवस्थितः ।। २०६ ॥ लोहिताङ्गो वृषे मध्ये मध्ये मीने विधोः सुतः । कुलीरे धिषणोऽत्युच्चैरध्यास्य भवनं स्थितः ॥ २०७॥ मीने दैत्यगुरुस्तुङ्गस्तस्मिन्नेव शनैश्चरः । मीनलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् ।।२०८ ।।
॥चतुर्भिः कलापकम् ।। प्रतिसूर्योऽथ यामेयीं ससखी सात्मजां च ताम् । विमानवरमारोप्य प्रतस्थे स्वपुरं प्रति ।। २०९ ॥ विमाने लम्बमानोच्चरत्नप्रालम्बकिङ्किणीः । जिघृक्षुर्मातुरुत्सङ्गादुत्पपाताऽथ बालकः ॥२१० ॥ १ विवाहादारभ्य पुत्रजन्मपर्यन्तम् । २ सिद्धिमेष्यति । ३ कृष्णाष्टमी । ४ मङ्गलः । ५ कर्कराशौ धिषणो बृहस्पतिः । ६ भगिनीपुत्रीम् । ७ ग्रहीतुमिच्छुः ।
अञ्जनायाः स्वमातुलागमनम्, तद्ग्राम
प्रयाणम् ।
।।७२ ।।