________________
त्रिषष्टिशलाका
पुरुषचरिते
७१॥
| सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मण| रावणचरितम् ।
आयातो मातुलोऽकस्मादेतां नेता स्ववेश्मनि । मेलकश्चाऽचिरात्पत्या सहैतस्या भविष्यति ।। १८५ ।। एवमुक्त्वाऽऽर्हते धर्मे स्थापयित्वा च ते उभे । समुत्पपात नभसा स मुनीन्द्रः खगेन्द्रवत् ।। १८६ ।। अथ पुच्छच्छटाच्छोटैः स्फोटयन्तमिवाऽवनिम् । बूत्कारपूर्णदिक्कुञ्ज कुञ्जरासृक्करालितम् ।। १८७ ।। दीपायमाननयनं वज्रकन्दाभदष्ट्रिकम् ।क्रकचक्रूरदशनं ज्वालासोदरकेसरस् ।। १८८ ॥ लोहाडशोपमनखं शिलासदृगुरःस्थलम् । पञ्चाननयुवानं ते समायान्तमपश्यताम् ।। १८९ ।।
॥त्रिभिर्विशेषकम् ॥ ततो वेपथुमत्यौ ते विविझू इव भूतलम् । कान्दिशीके हरिणिके इव यावदतिष्ठताम् ।। १९० ।। मणिचूलाभिधस्तावद्गन्धर्वतद्हाधिपः । विकृत्य शारभं रूपं तं पञ्चास्यमनाशयत् ।। १९१ ।। संहृत्य शारभं रूपं स्वं रूपं पतिपद्य च । तयोः प्रमोदाय जगौ सैप्रियोऽर्हगुणस्तुतिम् ॥ १९२ ।। तेन चाऽमुक्तसान्निध्ये गुहायां तत्र सुस्थिते । मुनिसुव्रतदेवार्चा स्थापयित्वाऽर्चतः स्म ते ।। १९३ ।। अन्येधुः सुषुवे तत्र सिंही सिंहमिवोत्कटम् । कुलिशाऽडशचक्राङ्कपादं तनयमञ्जना ।। १९४ ।। तस्याश्च सूतिकर्माणि वसन्ततिलकाऽकरोत् । स्वयं समाहृतैर्हर्षवशादेधोजलादिभिः ।।१९५ ॥ आरोग्य सुतमुत्सङ्गे दुःखिताऽञ्जनसुन्दरी । उदश्रुवदनाऽरोदीद्रोदयन्तीव तां गुहाम् ॥ १९६ ॥ महात्मन्नत्र विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोम्येषा वराकी पुण्यवर्जिता ? | १९७ ।। एवं तां रुदती प्रेक्ष्य समुपेत्य च खेचरः । प्रतिसूर्यो मधुरगीरपृच्छद् दुःखकारणम् ॥ १९८ ॥ १ गजशोणितेन भयङ्करम् । २ अधपदरूपम् । ३ भार्यासहितः ।
हनुमज्जन्म।
॥ ७१ ॥