________________
त्रिषष्टि
शलाका
पुरुषचरिते 1190 ||
भुक्त्वा स सुचिरं राज्यं तीर्थे श्रीविमलप्रभोः । लक्ष्मीधरमुनेः पादमूले व्रतमुपाददे ।। १७१ ।। दुस्तपं स तपस्तप्त्वा मृत्वाऽभूल्लान्तके सुरः । च्युत्वा ततोऽस्यास्त्वत्सख्या उदरे समवातरत् ।। १७२ ॥ गुणानामालयश्चाऽयं दोष्मान् विद्याधरेश्वरः । पुत्रश्वरमदेहोऽस्या अनवद्यो भविष्यति ।। १७३ ।। अन्यच्च कनकपुरे नगरेऽभून्नरेश्वरः । नामतः कनकरथो महारथशिरोमणिः ।। १७४ । पल्यौ तस्य च कनकोदरी लक्ष्मीवतीति च । अत्यन्तश्राविका तत्र लक्ष्मीवत्यभवत्सदा ।। १७५ ।। गृहचैत्ये रत्नमयं जिनबिम्बं विधाय सा । अपूजयदवन्दिष्ट प्रत्यहं कालयोर्द्वयोः ।। १७६ ।। मात्सर्यात्कनकोदर्या हृत्वाऽर्हत्प्रतिमा तु सा । चिक्षिपेऽवर्करस्याऽन्तरपवित्रे हताशया ।। १७७ ॥ जयश्रीर्नाम गणिनी विहरन्त्यागता तदा । तद्दृष्ट्वा तामुवाचेवमकार्षीः किमिदं शुभे ! ।। १७८ ॥ भगवत्प्रतिमामत्र प्रक्षिपन्त्या त्वया कृतः । अनेकभवदुःखानामात्माऽयं हन्त भाजनम् ।। १७९ ॥ इत्युक्ता सानुतापा सा गृहीत्वा प्रतिमां ततः । प्रमृज्य क्षमयित्वा च यथास्थानं न्यवेशयत् ।। १८० ।। तदादि सम्यक्त्वधरा जैनं धर्म प्रपाल्य च । काले विपद्य सौधर्मे कल्पे सा देव्यजायत ।। १८१ ।। च्युत्वा ततो महेन्द्रस्याऽभूत्सुतेयं सखी तव । अस्यास्तदर्हदर्चीया दुःस्थानक्षेपजं फलम् ।। १८२ ॥ अस्यास्तस्मिन् भवे जामिस्त्वमभूस्तस्य कर्मणः । अनुमन्त्री च तत्पाकमनुभुङ्क्षेऽनया सह ।। १८३ ॥ भुक्तप्रायमिदं चाऽस्यास्तस्य दुःकर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छुभोदर्को भवे भवे ।। १८४ ।। १] अवकरः सङ्करः प्रमार्ज्येकीकृतं तृणादि । २ हतचित्ता । ३ अर्चा प्रतिमा । ४ भगिनी । ५ शुभ उदर्क उत्तरकालो यस्य स ।
सप्तमं पर्व
तृतीयः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
अटव्या
मञ्जनाया
मुनि
दर्शनम् ।
तैस्तस्या दुःखकारण
पूर्वभव
कथनम् ।
।। ७० ।।