________________
त्रिषष्टिशलाकापुरुषचरिते
॥६९॥
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
भ्रातर्दोषोऽपि नाऽस्त्येव ताते जीवति ते ननु । नाथ ! त्वयि च दूरस्थे जज्ञे सर्वोऽप्यरिर्मम ।। १५६ ।। सर्वथा स्त्री विना नाथं मैकाहमपि जीवतु । यथाऽहमेका जीवामि मन्दभाग्यशिरोमणिः ।। १५७ ॥ विलपन्त्यञ्जना सख्या निन्ये सम्बोध्य चाऽग्रतः । ददर्शाऽन्तर्गुहं ध्यानस्थं चाऽमितगतिं मुनिम् ॥१५८ ॥ चारणश्रमणं तं च प्रणम्य विनयेन ते । निषेदतुः पुरो भूमौ सोऽपि ध्यानमपारयत् ॥१५९ ।। मनश्चिन्तितकल्याणमहारामैकसारणिम् । धर्मलाभाशिष सोऽदात्करमुन्नम्य दक्षिणम् ॥ १६० ॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिलका तु सा । सर्वमप्यञ्जनादुःखमाचख्यौ मूलतोऽपि हि ॥ १६१ ॥ कोऽस्या गर्भेऽभवत् ? केन कर्मणा चेदृशीं दशाम् । सम्प्राप्तैषेति ? तत्सख्या पृष्टः स मुनिरब्रवीत् ।। १६२ ।। अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दीत्यभूद्वणिक् ।। १६३ ।। जयानाम्न्यां च जायायां तस्याऽजायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दुवत् ।। १६४ ॥ क्रीडन् सोऽन्येधुरुधाने स्वाध्यायध्यानतत्परान् । ददर्श साधूंस्तेभ्यश्च धर्म शुश्राव शुद्धधीः ।। १६५ ।। सम्यक्त्वं नियमांश्चाऽथ जग्राह क्रमयोगतः । अभूत्कल्पे द्वितीयस्मिन्नमरः परमर्द्धिकः ।। १६७ ।। च्युत्वा ततो जम्बूद्वीपे मृगाङ्कनगरेशितुः । प्रियङ्गुलक्ष्म्यां पुत्रोऽभूद्धरिचन्द्रमहीपतेः ।। १६८ ।। सिंहचन्द्र इति ख्यातो जैन धर्म प्रपद्य सः । विपद्य क्रमयोगाच्च देवभुवमुपेयिवान् ।। १६९ ।। च्युत्वा चाऽत्रैव वैताढये नगरे वारुणेऽभवत् । सुकण्ठराजकनकोदोस्तुक सिंहवाहनः ॥ १७० ॥ १ स्वर्गम् । २ पुत्रः ।
अटव्यामञ्जनाया मुनिदर्शनम् ।
।।६९ ।।