________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥६८॥
द्रुतं निर्वास्यतामेषा दूषितं ह्यनया कुलम् । अहिदष्टाङ्गुलिः किं न छिद्यते बुद्धिशालिना ? ।। १४१ ।। अथाऽवोचन्महोत्साहो नाम मन्त्रीति भूपितम् । श्वश्रूदुःखे दुहितॄणां शरणं शरणं पितुः ।। १४२ ।। किञ्च केतुमती श्वश्रूर्निर्दोषामप्यमूं प्रभो ! । निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ।। १४३ ।। व्यक्तिर्यावद्भवेद्दोषाऽदोषयोस्तावदत्र हि । प्रच्छन्नं पाल्यतामेषा स्वपुत्रीति कृपां कुरु ।। १४४ ।। राजाऽपीत्यवदच्छ्वश्रूः सर्वत्र भवतीदृशी । ईदृशं चरितं तु स्याद्वधूनां न हि कुत्रचित् ।। १४५ ।। किं च संशृण्महेऽग्रेऽपि द्वेष्येयं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुष्याः पवनादेव तत्कथम् ? ।। १४६ ॥ सर्वथा दोषवत्येषा साधु निर्वासिता तया । निर्वास्यतामितोऽपि द्राक् पश्यामस्तन्मुखं न हि ।। १४७ ।। इत्थं राजाज्ञया द्वाःस्थो निरवासयदञ्जनाम् । जनैरपि कृताक्रन्दैर्दीनास्यैः कष्टमीक्षिताम् ॥ १४८ ।। क्षुधा तृषिताश्रान्ता निःश्वसन्त्यश्रुवर्षिणी । दर्भविद्धपदासृग्भी रञ्जयन्ती महीतलम् ।। १४९ ।। पदे पदे प्रस्खलन्ती विश्राम्यन्ती तरौ तरौ । सह सख्याऽञ्जनाऽचालीद्रोदयन्ती दिशोऽपि हि ।। १५० ।। यत्र यत्र पुरे ग्रामे साऽगच्छत्तत्र तत्र च । पूर्वायातनृपपुम्भिर्निषेधान्नाऽऽसदत् स्थितिम् ।। १५१ ।। पर्यटन्ती तु सा प्राप कामप्येकां महाटवीम् । गिरिकुञ्जे तरोर्मूले निषद्य विललाप च ।। १५२ ।। अहो ! मे मन्दभाग्याया गुरूणामविचारतः । अग्रे दण्डोऽभवत्पश्चादपराधविवेचनम् ।। १५३ ।। साधु केतुमति ! कुलकलङ्को रक्षितस्त्वया । त्वयाऽपि सम्बन्धिभयात्तात ! साधु विचारितम् ।। १५४ ।। दुःखितानां हि नारीणां माताऽऽश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाऽप्यहमुपेक्षिता ।। १५५ ।। १ शोणितैः । २ पतीच्छानुवर्तिनी ।
सप्तमं पर्व
तृतीयः
सर्गः
रामलक्ष्मणरावणचरितम् ।
कलङ्काप्ता
ञ्जनायाः
पितृगृहे स्थानाप्राप्तिः, महाटव्यां
वासश्च ।
॥ ६८ ॥