________________
त्रिषष्टिशलाकापुरुषचरिते
॥६७॥
| सप्तमं पर्व | तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
सा लज्जानम्रमुख्येवं श्वश्वा भूयोऽप्यभयंत । यस्तेऽग्रहीन्न नामाऽपि कथं ते तेन सङ्गमः ? ॥ १२७ ।। अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् ? । प्रतारणाप्रकारान् हि बहून् जानन्ति पांसुलाः ।। १२८ ।। मद्गृहादद्य निर्गच्छ गच्छ स्वच्छन्दचारिणि ! । पितुर्वेश्मनि माऽत्र स्थाः स्थानमेतन्न हीदृशम् ।। १२९ । तर्जयित्वाऽअनामेवं नेतुं पितृनिकेतने । आदिक्षदारक्षनरान्निःकृपा राक्षसीव सा ।।१३० ॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्ते नीत्वाऽमुञ्चन्नुदश्रवः ॥ १३१ ।। तां मातृवन्नमस्कृत्य क्षमयित्वा च ते ययुः । स्वामिवत्स्वाम्यपत्येऽपि सेवकाः समवृत्तयः ।। १३२ ।। तदुःखदुःखित इव तदा चाऽस्तमगाद्रविः । सन्तः सतां न विपदं विलोकयितुमीश्वराः ॥ १३३ ॥ घूकानां घोरघूत्कारैः फेत्कारैः फेरुयोषिताम् । क्रन्दितैर्वृकवृन्दानां श्वाविधां विविधैः स्वनैः ।। १३४ ।। तुमुलैः पिङ्गलानां च सङ्गीतैरिव रक्षसाम् । स्फुटत्कर्णेव सा कष्टं तां जाग्रत्यनयन्निशाम् ।। १३५ ॥
॥युग्मम् ॥ प्रातरुत्थाय सा दीना शालीनेव हिया शनैः । ययौ पितृगृहद्वारे भिक्षुकीवाऽपरिच्छदा ॥१३६ ।। दृष्ट्वा ससम्भ्रमस्तां च प्रतीहारोऽनुयुज्य च । अवस्थां तादृशीं सख्याख्यातां राज्ञे व्यजिज्ञपत् ।।१३७ ।। लज्जानतश्याममुखो राजाऽप्येवमचिन्तयत् । अचिन्त्यं चरितं स्त्रीणां हि विपाको विधेरिव ।। १३८ ।। इयं कुलकलङ्काय कुलटा गृहमागता । अञ्जनाऽञ्जनलेशोऽपि दूषयत्यंशुकं शुचि ।। १३९ ॥ इति चिन्ताप्रपन्नं तमप्रसन्नीभवन्मुखः । प्रसन्नकीर्तिस्तनयो नयनिष्ठोऽब्रवीदिति ।। १४० ।। १ श्वावित् भाषायां 'शाहुडी' इति । २ नकुलानाम् । ३ लज्जा । ४ पृष्ट्वा ।
अञ्जनायाः पितृगृहे गमनम्।
।।६७ ॥