________________
त्रिषष्टिशलाकापुरुषचरिते
॥६६॥
| सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अपरं च ऋतुस्नाताऽस्म्यद्यैव यदि मे भवेत् । गर्भस्तत्त्वत्परोक्षेऽपवदेयुः पिशुना मयि ।। ११५ ।। पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि ! । मय्यायाते कथं क्षुद्रावकाशो भविता त्वयि ? ।। ११६ ।। अथवा गुह्यतामेतन्मदागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत्प्रकाशयेः ।। ११७ ।। अर्पयित्वाऽडलीयं स्वमुत्पत्य पवनञ्जयः । जगाम मानससरस्तीरस्थे शिबिरे निजे ।। ११८ ।। ततोऽपि सह सैन्येन नाकीव व्योमवर्त्मना । जगाम लगानगरी रावणं प्रणनाम च ।। ११९ ॥ रावणोऽपि प्रविश्याऽथ पातालं पृतनान्वितः । प्रययौ प्रति वरुणं तरुणार्क इव त्विषा ।। १२० ॥ इतश्च तद्दिने गर्भ बभाराऽञ्जनसुन्दरी । विशेषसुन्दरीभूतसर्वावयवशालिनी ।। १२१ ॥ मुखमापाण्डुगण्डश्रि श्यामवक्त्रौ पयोधरौ । गतिं नितान्तमलसां नेत्रे च प्रसृतोज्ज्वले ।। १२२ ।। गर्भलक्ष्माणि चाऽन्यानि तस्या व्यक्तानि वर्षाणि । दृष्ट्वा केतुमती श्वश्रूः साधिक्षेपमदोऽवदत् ।। १२३ ।।
॥युग्मम् ।। हले ! किमिदमाचारीः कुलद्वयकलङ्ककृत् । देशान्तरगते पत्यौ पापे यदुदरिण्यभूः ।। १२४ ।। स्वपुत्रे त्वेदवज्ञायामज्ञाय्यज्ञानदोषिता । इयच्चिरं त्वमस्माभिर्न हि ज्ञाताऽसि पांसुला ।। १२५ ।। एवं निर्भसिता श्वश्र्वा साश्रुरञ्जनसुन्दरी । पत्युरागमनचिह्न तदडलीयमदर्शयत् ।। १२६ ।। १ विशेषेण सुन्दरीभूताः सर्वावयवास्तैः शालिनी । २ प्रसृते च ते उज्ज्वले चेति समासः । ३ शरीरे । ४ गर्भिणी । ५ तव तिरस्कारविषये मया स्वपुत्रेऽज्ञानदोषित्वमज्ञायि-ज्ञातम् मम पुत्रस्तव तिरस्कारं करोति तत्र पुत्रस्यैव दोषो मया पुरा ज्ञात आसीदिति तात्पर्यम् ।
पवनञ्जनयोः रतिक्रीडाः । अञ्जनायाः गर्भवृद्धिः।
।।६६ ॥