________________
त्रिषष्टिशलाकापुरुषचरिते
॥६५॥
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अञ्जनाऽपि जगादैवं हसितां विधिनैव माम् ।मा हसीस्त्वं प्रहसित ! क्षणोऽयं न हि नर्मणः ।। १०० ॥ अथवा नैष दोषस्ते दोषो मत्पूर्वकर्मणाम् । कुलीनस्तादृशो भर्ता त्यजेन्मां कथमन्यथा ? ।। १०१ ॥ पाणिग्रहात्प्रभृत्येव मुक्तायाः स्वामिना मम । द्वाविंशतिःसमा जग्मुर्जीवाम्यद्याऽपि पापिनी ।। १०२ ।। अथ सङ्क्रान्ततदुःखप्राग्भारपवनञ्जयः । अन्तः प्रविश्य व्याहार्षीद् बाष्पगद्गदवागिदम् ।। १०३ ।। निर्दोषा दोषमारोप्य त्वमुद्वाहात्प्रभृत्यपि । अवज्ञाताऽस्यविज्ञेन मयका विज्ञमानिना ।। १०४ ।। मद्दोषादीदृशीमागा दुःसहां दुर्दशां प्रिये! । मृत्यु प्राप्ताऽपि मद्भाग्यैः स्तोकान्मुक्ताऽसि मृत्युना ।।१०५ ।। इत्युक्तवन्तं सा नाथमुपलक्ष्य त्रपावती । पर्यवेषामवष्टभ्याऽभ्युत्तस्थौ विनमन्मुखा ।। १०६ ।। लतां हस्तीव हस्ते दोष्णा वैलयितेन ताम् । आददानोऽधिपर्यत न्यषदत्पवनञ्जयः ॥ १०७ ।। भूयस्ता पवनोऽवोचन्मयाऽतिक्षुद्रबुद्धिना । निरोगाः खेदिताऽसि त्वं तत्सहस्व प्रिये ! मम ।। १०८ ।। अवोचदञ्जनाऽप्येवं नाथ ! मा स्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षामणाऽनुचिता मयि ।। १०९ ।। निर्जगाम प्रहसितो वसन्ततिलकाऽप्यथ । रहःस्थयोर्हि दम्पत्योर्न च्छेकाः पार्श्ववर्तिनः ।। ११० ।। रेमाते तत्र च स्वैरमअनापवनञ्जयौ । विरराम रसावेशाच्चैकयामेव यामिनी ॥ १११ ॥ प्रभातां रात्रिमालोक्य तामूचे पवनञ्जयः । जयाय कान्ते ! यास्यामि ज्ञास्यन्ति गुरवोऽन्यथा ।। ११२ ॥ खेदं माऽतः परं कार्षीः सुखं तिष्ठ सखीकृता । दशास्यकृत्यं सम्पाद्य यावदायामि सुन्दरि! ॥११३ ॥ साऽप्युवाचेति तत्कृत्यं दोष्मतः सिद्धमेव ते । कृतार्थः शीघ्रमागच्छेर्जीवन्तीं मां यदीच्छसि ।। ११४ ॥ १ ईषा पर्यङ्कस्यावयवविशेषः । २ वलयमिवाचरितेन । ३ निरपराधा । ४ चतुराः । ५ पार्श्वस्थाः ।
पवनानयोः रतिक्रीडा।
॥६५ ॥