________________
सप्तमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥४॥
सर्गः रामलक्ष्मणरावणचरितम् ।
आश्वासयितुमद्याऽपि सखे ! सा तव युज्यते । प्रियोक्त्या तामनुज्ञाप्य स्वार्थाय पुनरापतेः ।। ८७ ।। हृदेव सुहृदा तेन भावसंवादिनेरितः । ययावञ्जनसुन्दर्या वेश्मन्युत्पत्य मारुतः ।। ८८ ॥ किञ्चित्तिरोहितस्तस्थौ द्वार्येव पवनञ्जयः । अग्रे भूत्वा प्रहसितः प्राविशच्च तदोकसि ।। ८९ ॥ वेल्लन्तीमधिपर्यत तोयेऽल्पे शफरीमिव । पीड्यमानां ज्योत्स्नयाऽपि हिमेनेव सरोजिनीम् ।।९० ।। अन्तर्हृदय॑सन्तापप्रस्फुटद्धारमौक्तिकाम् । उन्मुक्तदीर्घनिःश्वासतरलालकमालिकाम् ।। ९१ ।। अधिनिषण्णनिःस्रस्तदोर्लग्नमणिकङ्कणाम् । वसन्ततिलकासख्याश्वास्यमानां मुहर्मुहुः ।। ९२ ।। शून्यदत्तदृशं शून्यचितां काष्ठमयीमिव । ईक्षाञ्चके प्रहसितस्तत्र चाऽअनसुन्दरीम् ।।९३ ॥
॥चतुर्भिः कलापकम् ॥ अकस्माद्यन्तर इव को नामेह समाययौ ? । इति भीताऽपि सा धैर्यमवलम्ब्येदमब्रीवत् ॥ ९४ ।। अहो ! कस्त्वमिहाऽऽयासीः ? परपुंसाऽथवा त्वया । अलं ज्ञातेन मेह स्थाः परनारीनिकेतने ।। ९५ ॥ वसन्ततिलके ! दोष्णा विधृत्यैनं बहिः क्षिप । क्षपाकरविशुद्धाऽस्मि नैनं द्रष्टुमपि क्षमा ।। ९६ ।। पवनञ्जयमुज्झित्वाऽमुष्मिन्मम निकेतने । न प्रवेशाधिकारोऽस्ति कस्याऽपि किमुदीक्षसे ? ।। ९७ ॥ नत्वा प्रहसितोऽवादीद्दिष्ट्या स्वामिनि ! वर्धसे । चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् ।। ९८ ।। तस्य मित्रं प्रहसितो मन्मथस्येव माधवः । अग्रेसरोऽहमायातोऽन्वायातं विद्धि च प्रियम् ।। ९९ ॥ १ चाटुवचनेन । २ भावो मनोगताभिप्रायस्तं संवदति तेन ।३ लुठन्तीम् । ४ हृदयसन्तापेन प्रस्फुटन्ति हारस्य मौक्तिकानि यस्यास्ताम् । ५ अलकाः केशाः ।
| अञ्जनायाः पत्यवज्ञावयोगौ, चक्रवाकी दर्शनात् पवनस्याअनायां
स्नेहः ।
॥६४ ॥