________________
सप्तमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
॥६३॥
तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
पतित्वा पादयोस्तस्य साऽप्यूचे रचिताञ्जलिः । त्वया सम्भाषितः सर्वोऽप्यहं तु न मनागपि ।। ७२ ।। विज्ञप्यसे तथाऽपि त्वं विस्मार्या न ह्यहं त्वया । पुनरागमनेनाऽऽशु पन्थानः सन्तु ते शिवाः ।।७३ ।। इति ब्रुवाणां तां दीनामहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥ ७४ ।। पत्यवज्ञावियोगार्ता गत्वाऽन्तर्वेश्मभूतले । वारिभिन्नतला सिन्धुतटीव निपपात सा ।। ७५ ।। पवमानवदुत्पत्य तदा प्रह्लादनन्दनः । जगाम मानससरस्युवास च निशामुखे ।।७६ ॥ विकृत्य तत्र प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधुक् ।। ७७ ।। तत्र पर्यङ्कमारूढः सरःपरिसरावनौ । आर्ती प्रियवियोगेन चक्रवाकी ददर्श सः ।। ७८ ।। पूर्वोपात्तामभुजानां मृणाललतिकामपि । तप्यमानां हिमेनाऽपि क्वथितेनेव वारिणा ।। ७९ ।। दूयमानां ज्योत्स्नयाऽपि वह्नयर्चिश्छटयेव ताम् । क्रन्दन्ती करुणं प्रेक्ष्य स एवं पर्यचिन्तयत् ।। ८० ।।
॥युग्मम् ॥ सकलं वासरं पत्या रमन्ते चक्रवाकिकाः । न सोढुमीशते नक्तमपि तद्विरहं पुनः ।। ८१ ॥ उद्वाहतोऽपि या त्यक्ता भाषिता या न जातुचित् । आगच्छताऽप्यवज्ञाता परनारीव या मया ।। ८२ ।। आक्रान्ता दुःखभारेण पर्वतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हा ! भविष्यति ? ।। ८३ ।। ।। युग्मम् ।। धिग्धिङ् ममाऽविवेकेन म्रियते सा तपस्विनी । तद्धत्यापातकेनाऽहं क्व गमिष्यामि दुर्मुखः ? ।। ८४ ।। इति चिन्तितमात्मीयमाख्यत्प्रहसिताय सः । स्वदुःखाख्यानपात्रं हि नाऽपरः सुहृदं विना ।। ८५ ॥ प्रोचे प्रहसितोऽप्येवं साध्यज्ञासीश्चिरादपि । नूनं विपद्यते साऽद्य सारसीव वियोगतः ।। ८६ ।। १ पत्युरवज्ञया वियोगेन च पीडिता । २ विवाहात् ।
अञ्जनायाः पत्यवज्ञाअ वियोगौ।
॥६३ ।।