________________
त्रिषष्टिशलाकापुरुषचरिते
॥६२॥
| सप्तमं पर्व | तृतीयः सर्गः रामलक्ष्मण रावण
चरितम् ।
तस्मिन्महति सङ्ग्रामे वीरैर्वरुणसूनुभिः । योधयित्वा च बद्ध्वा च निन्याते खरदूषणौ ।। ५९ ।। अभज्यत ततः सैन्यं राक्षसानामशेषतः । कृतार्थमानी वरुणोऽप्यविशन्नगरी निजाम् ।। ६० ।। विद्याधरेन्द्रानाह्वातुं प्राहिणोद्रावणोऽपि हि । दूतान् प्रत्येकमप्यद्य भवते प्रेषितस्त्वहम् ।। ६१ ।। प्रह्लादोऽथ दशास्याय साहायककृते स्वयम् । यावच्चचाल तावत्तमुवाच पवनञ्जयः ।। ६२ ।। इहैव तिष्ठ तात ! त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवाऽस्मि तनयो ननु ।। ६३ ।। इत्युदीर्य सनिर्बन्धं पितरं चाऽनुमान्य सः । लोकं चाऽशेषमाभाष्य चचाल पवनञ्जयः ।। ६४ ।। श्रुत्वाऽअना जनमुखात्पत्युर्यात्रामथोत्सुका । देवीव व्योमशिखरात् प्रासादादवरुह्य च ।। ६५ ।। तमीक्षितुमवष्टभ्य स्तम्भं पाञ्चालिकेव सा । निर्निमेषेक्षणा तस्थावस्वास्थ्यमथिताशया ॥ ६६ ।। ।। युग्मम् ।। द्वारस्तम्भनिषण्णाङ्गीं प्रतिपच्चन्द्रवत्कृशाम् । लुलितालकसञ्छन्नललाटां निर्विलेपनाम् ।। ६७ ॥ नितम्बन्यस्तविस्रस्तश्लथलम्बिभुजालताम् । ताम्बूलरागरहितधूसराधरपल्लवाम् ।। ६८ ॥ बाष्पाम्बुक्षालितमुखीमुन्मुखां पुरतः स्थिताम् । अञ्जनां व्यञ्जनदृशं ददर्श पवनो व्रजन् ।। ६९ ।।
॥त्रिभिर्विशेषकम् ।। तां निध्यायन्निदं दध्यौ सद्यः प्रह्लादनन्दनः । अहो निहीत्वमेतस्या निर्भीत्वमपि दुर्धियः ।।७० ।। अथवा ज्ञातमेतस्या दौर्मनस्यं पुराऽपि हि । उदूढा तु मया पित्रोराज्ञालचनभीरुणा ।।७१ ।। १ अस्वास्थ्येन मथितं चित्तं यस्याः सा । २ नितम्बे न्यस्ता-धारिता विस्रस्ता-श्लथा लम्बिनी भुजलता यया सा । ३ अञ्जनरहितनेत्राम् । ४ पश्यन् ।
| पवनञ्जनयोः निःस्नेहः संसार:, रावणसाहाय्यार्थ पवनगमनम् ।।
॥६२ ॥