________________
सप्तमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥६१॥
सर्गः रामलक्ष्मणरावणचरितम् ।
तद्वधूवरमादाय सदायादः प्रमोदभाक् । महेन्द्रेणाऽर्चितः स्नेहात् प्रह्लादः स्वां पुरी ययौ ।। ४४ ।। प्रह्लादोऽञ्जनसुन्दर्याः प्रासादं सप्तभूमिकम् । अर्पयामास वासाय विमानमिव भूस्थितम् ।। ४५ ।। तां न सम्भावयामास वाचाऽपि पवनञ्जयः । मानिनो ह्यवलेपं न विस्मरन्ति यतस्ततः ।। ४६ ॥ विना शशाङ्क श्यामेव सा विना पवनअयम् । बाष्पान्धकारवदना तस्थावस्वास्थ्यभाजनम् ।। ४७ ।। पार्श्वद्वितयमाघ्नन्त्याः पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च संवत्सरवद् द्राधीयस्योऽभवन्निशाः ।। ४८ ॥ अनन्यमानसा जानुमध्यन्यस्तमुखाम्बुजा । भर्तुरालेखनैरेव व्यतीयाय दिनानि सा ।। ४९ ।। मुहुरालप्यमानाऽपि सखीभिश्चाटुपूर्वकम् । परपुष्टेव हेमन्ते न सा तूष्णीकतां जहौ ।। ५० ।। एवं च काले व्रजति प्रह्लादनृपमन्यदा । दूतो राक्षसराजस्य समुपेत्यैवमब्रवीत् ॥ ५१ ।। समं राक्षसनाथेन यादोनाथः स दुर्मतिः । वैरायतेऽद्य नितरां प्रणिपातममानयन् ।। ५२ ।। याचितः स नमस्कारमहङ्कारमहागिरिः । दोर्दण्डो चक्षुषा पश्यन्निदं वदति कद्वदः ।। ५३ ।। अरे! को रावणो नाम ? तेन किं ननु सिध्यति ? । नाऽहमिन्द्रः कुबेरो वा न चाऽस्मि नलकूबरः ।। ५४ ।। सहस्ररश्मिर्नाऽप्यस्मि न मरुत्तो न वा यमः । न च कैलासशैलोऽस्मि किं त्वस्मि वरुणो ननु ।। ५५ ।। देवताधिष्ठितै रत्नैर्यदि दर्पोऽस्य दुर्मतेः । तदायातु हरिष्यामि तद्दपं चिरसञ्चितम् ।। ५६ ॥ इत्युक्त्या रावणः क्रुद्धः समरायाऽभ्यषेणयत् । अरौत्सीत्तत्पुरं चाऽब्धिवेलेव तटपर्वतम् ।। ५७ ।। पुरान्निःसृत्य वरुणो रणायाऽरुणलोचनः । राजीवपुण्डरीकाद्यैर्वृतः पुत्रैरयुध्यत ।। ५८ ॥ १ सकुटुम्बः । २ रजनी ।३ कोकिला । ४ मौनम् । ५ कुत्सितं वदतीति कद्वदः ।
| पवनञ्जनयोः निःस्नेहः संसारः।