________________
त्रिषष्टिशलाकापुरुषचरिते
॥६०॥
सप्तमं पर्व | तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
इत्यालापं तयोः श्रुत्वाऽचिन्तयत् पवनञ्जयः । अस्याः प्रियमिदं नूनं तेन नैषा निषेधति ।। २९ ।। इति क्रुद्धोऽसिमाकृष्याऽऽविरासीत्पवनञ्जयः । निशाचर इवाऽकस्मादन्धकारात् समुत्थितः ।। ३०॥ विद्युत्प्रभो हृदि ययोर्द्वयोरपि तयोः शिरः । छिनमीति वदन्रोषाच्चचाल पवनञ्जयः ॥३१॥ बाहुदण्डे धारयंस्तमिति प्रहसितोऽवदन् । सापराधाऽप्यवध्यैव स्त्री गौरिव न वेत्सि किम् ? ।। ३२ ।। किं पुनर्निरपराधैवेयमञ्जनसुन्दरी । तथाऽपवादिनी नैषा निषेधति पुनर्रिया ।। ३३ ।। इति प्रहसितेनोच्चैर्निषिद्धः पवनञ्जयः । उत्पत्याऽऽगात् स्वमावासं जाग्रत्तस्थौ च दुःखितः ।। ३४ ।। प्रातश्चोचे प्रहसितं सखे ! किमनयोढया ? । भृत्योऽपि हि विरक्तः स्यादापदे किं पुनः प्रिया ? ॥३५॥ तदेहि यावः स्वपुरीमुरीकृत्य परं रेयम् । किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? ।।३६ ॥ इत्युदीर्योच्चकैर्यावच्चचाल पवनञ्जयः । धृत्वा तावत्प्रहसितस्तं साम्नैवमबोधयत् ॥ ३७ ।। न युक्तं महतां यत्स्वप्रतिपन्नस्य लङ्घनम् । अनुलक्यैस्तु गुरुभिः प्रतिपन्नस्य का कथा ? ॥३८॥ विक्रीणते वा मूल्येन ददते वा प्रसादतः । गुरवो हीत्यपि सतां प्रमाणं नाऽपरा गतिः ।। ३९ ॥ किं चेहाऽञ्जनसुन्दर्यामस्ति दोषलवोऽपि न । दूष्यते दैवदोषेण सुहृदो हृदयं पुनः ।। ४० ।। महात्मानौ च पितरौ स्वस्य तस्याश्च विश्रुतौ । किं न लज्जयसि भ्रातर्गच्छन् स्वच्छन्दवृत्तितः ॥४१॥ उक्तः प्रहसितेनैवं विमृष्य पवनञ्जयः । तथैव कथमप्यस्थात् सशल्य इव चेतसि ॥ ४२ ॥ पवनञ्जनसुन्दर्योर्निर्णीते च दिनेऽभवत् । पितृनेत्रोत्पलशशी पाणिग्रहमहोत्सवः ॥ ४३ ॥ १ कुत्सितवादिनीम् । २ वेगम् । ३ विधिदोषेणेत्यर्थः । ४ निश्चिते ।
पवनञ्जयस्य अञ्जनायाम
प्रीतिः,
तपोर्विवाहः।
॥६
॥