________________
त्रिषष्टिशलाकापुरुषचरित
॥५९।।
सप्तमं पर्व तृतीयः सर्गः रामलक्ष्मणरावणचरितम् ।
प्रह्लादस्तनयां प्रेक्ष्य महेन्द्रमिदमभ्यधात् । दीयतां मत्सुतायैषा स्वसुताऽअनसुन्दरी ।। १३ ।। महेन्द्रः प्रतिपेदे तदग्रेऽपि हृदयस्थितम् । निमित्तमात्रमेवासीत् प्रहादप्रार्थना तु सा ।। १४ ।। इतस्तृतीये दिवसे मानसाख्ये सरोवरे । कार्यो विवाह इत्युक्त्वा तौ यथास्थानमीयतुः ।। १५ ।। ततो महेन्द्रप्रह्लादौ साह्लादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्च तौ ।। १६ ।। मित्रं प्रहसितं नामोवाचेति पवनञ्जयः । दृष्टाऽस्ति किं त्वया ? ब्रूहि कीदृश्यञ्जनसुन्दरी ।। १७ ॥ हसित्वेषत्प्रहसितोऽप्येवमूचे मयेक्षिता । सा हि रम्भादिकाभ्योऽपि सुन्दर्यञ्जनसुन्दरी ।। १८ ।। तस्या निरुपमं रूपं यादृशं दृश्यते दृशा । तादृशं वचसा वक्तुं वाग्मिनाऽपि न शक्यते ।। १९ ।। पवनञ्जय इत्यूचे दूरे ह्युद्वाहवासरः । सा दृग्गोचरमधैव कथं नेया मया सखे ! ? ॥ २० ॥ वल्लभोत्कण्ठितानां हि घटिकाऽपि दिनायते । मासायते दिनमपि कि पुनस्तद्दिनत्रयम् ।। २१ ।। ततः प्रहसितोऽप्येवं व्याजहार स्थिरीभव । निशि तत्रैत्य तां कान्तां द्रक्षस्यनुपलक्षितः ।। २२ ।। उत्पत्य सप्रहसितो निरगात् पवनञ्जयः । आस्थितेऽअनसुन्दर्या प्रासादे सप्तभूमिके ।। २३ ॥ राजस्पश इव च्छन्नीभूयं सोऽअनसुन्दरीम् । सम्यगीक्षितुमारेभे समित्रः पवनञ्जयः ।। २४ ।। धन्याऽसि या हि प्रापस्त्वं तं पतिं पवनञ्जयम् । सखी वसन्ततिलकेत्युवाचाऽअनसुन्दरीम् ।। २५ ।। हले ! मुक्त्वा वरं विद्युत्प्रभ चरमविग्रहम् । को वरः श्लाध्यत ? इति मिश्रकेत्यवदत् सखी ॥ २६ ॥ प्रथमा प्रत्युवाचैवं मुग्धे ! वेत्सि न किञ्चन । विद्युत्प्रभो हि स्वल्पायुः स्वामिन्या युज्यते कथम् ? ॥२७॥ द्वितीयाऽपीत्यभाषिष्ट वयस्ये ! मन्दधीरसि । स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु ।। २८ ॥ १ प्रशस्ता वागस्येति वाग्मी तेन । २ अज्ञातोऽन्येनेत्यध्याहार । ३ अधिष्ठिते । ४ स्पशो गूढचरः । ५ चरमशरीरिणम् । ६ समूहः ।
पवनञ्जयस्य अजनायामप्रीतिः ।
।। ५९ ॥