________________
तृतीयः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते ।।५८॥
| सप्तमं पर्व
तृतीयः |सर्गः रामलक्ष्मणरावणचरितम् ।
पितुः ।
यथावदालनकुक्षिजन्म
अथेह वैताळ्यगिरावादित्यपुरपत्तने । प्रह्लादो नाम राजाऽभूत्केतुमत्यस्य तु प्रिया ।। १ ।। तयोर्बभूव तनयो नामतः पवनञ्जयः । जयी पवनवस्थाम्ना गगने गमनेन च ॥ २ ॥ इतश्च भरतेऽत्रैवोपार्णवं दन्तिपर्वते । विद्याधरेन्द्रो महेन्द्रो महेन्द्रनगरेऽभवत् ।।३।। पल्या हृदयसुन्दर्यां तस्य चाऽअनसुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत्सुता ।। ४ ।। उद्यौवनायास्तस्याश्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः ।। ५ ।। महेन्द्रस्याऽऽज्ञयाऽमात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्य पट्टेष्वानाय्य समदर्शयन् ।। ६ ।। तत्र विद्याधराधीशहिरण्याभाङ्गजन्मनः । रूपं विद्युत्प्रभाख्यस्य सुमनःकुक्षिजन्मनः ।।७ ॥ प्रह्लादसूनोः पवनञ्जयस्य च मनोरमम् । चित्रस्थं सचिवोऽन्येधुर्महेन्द्रस्याऽभ्यढौकयत् ।। ८ ।।
॥युग्मम् ।। रूपवन्तौ कुलीनौ च द्वावप्येतौ तदेतयोः । कन्यायाः को वर ? इति राज्ञोक्तः सचिवोऽभ्यधात् ।। ९ ।। एषोऽष्टादशवर्षायुर्मोक्षं विद्युत्प्रभो गमी । इति नैमित्तिकाः स्वामिन् ! व्यक्तमाख्यातपूर्विणः ।। १०॥ प्रह्लादतनयस्त्वेष चिरायुः पवनञ्जयः । योग्यो वरस्तदेतस प्रयच्छाऽञ्जनसुन्दरीम् ॥ ११ ॥ अत्राऽन्तरे तु यात्रायै द्वीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेऽपि सर्वा सपरिच्छदाः ।। १२ ।। १ बलेन । २ गमिष्यति । ३ पूर्व आख्यातवन्तः ।
पवनञ्जयस्य अञ्जनायाश्च वर्णनम् ।
॥५८॥