________________
त्रिषष्टिशलाकापुरुषचरिते
॥५७॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण
चरितम् ।
ध्यानारूढस्त्वया बद्धस्ताडितोऽनेकशश्च सः । मनागपि न च ध्यानादचालीदचलाचलः ।। ६४२ ।। कल्याणगुणधरस्तु तद्भ्राता श्रमणाग्रणीः । प्रेक्ष्य त्वय्यमुचत्तेजोलेश्यां शम्पामिव द्रुमे ।। ६४३ ।। सत्यश्रिया च त्वत्पल्या शमितो भक्तिजल्पितैः । तेजोलेश्यां स संजहे न दग्धोऽसि तदैव तत् ।। ६४४ ।। मुनिन्यक्कारजात् पापात्त्वं भ्रान्त्वा कतिचिद्भवान् । शुभं कर्म विधायेन्द्रः सहस्रारसुतोऽभवः ।। ६४५ ।। महामुनितिरस्कारप्रहारोद्भवकर्मण: । उपस्थितं फलमिदं रावणाद्याः पराभवः ।। ६४६ ।। कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी ।। ६४७ ।। तच्छ्रुत्वा दत्तवीर्यस्य राज्यं दत्त्वाऽङ्गजन्मनः । इन्द्रः पर्यव्रजत्तप्तोग्रतपाश्च ययौ शिवम् ।। ६४८ ।। रावणोऽपि ययौ स्वर्णतुङ्गशैलेऽपरेऽहनि । अनन्तवीर्यं नामर्षि वन्दितुं जातकेवलम् ।। ६४९ ।। तं वन्दित्वा यथास्थानं निषण्णो दशकन्धरः । शुश्राव च श्रोत्रसुधासारणिं धर्मदेशनाम् ।। ६५० ।। देशनान्ते दशास्येन कुतः स्यान्मरणं मम ? । इति पृष्टो महर्षिः स भगवानेवमभ्यधात् ।। ६५१ ।। पारदारकदोषेण वासुदेवाद्भविष्यति । भविष्यति विपत्तिस्ते प्रतिविष्णोर्दशानन !।। ६५२ ।। परस्त्रियमनिच्छन्ती रमयिष्यामि न ह्यहम् । जग्राहाऽभिग्रहमिमं स तस्यैव मुनेः पुरः ।। ६५३ ।।
मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तं, दशवदन इयाय स्वां पुरी पुष्पकस्थः ।
निखिलनगरनारीनेत्रनीलोत्पलानां, प्रमदविभवदानाद्यामिनीजानिकल्पः ।। ६५४ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषटिशलाकापुरुषचरिते महाकाव्ये
सप्तमे पर्वणि रावणदिग्विजयो नाम द्वितीयः सर्गः । १ शम्पा विद्युत् । २ भक्तिवचनैः । ३ अगामिनि काले । ४ यामिनीजानिःचन्द्रस्तत्तुल्यः ।
महर्षिणा रावणमरणकथनम् ।
॥ ५७ ॥