________________
त्रिषष्टिशलाकापुरुषचरिते
॥५६॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
उवाच रावणोऽप्येवं शक्रं मुञ्चामि यद्यसौ । सदिक्पालपरीवारः कर्म कुर्यात् सदेदृशम् ।। ६२६ ।। परितोऽपि पुरी लङ्कां करोत्वेष क्षणे क्षणे । तृणकाष्ठादिरहितां वासागारमहीमिव ।। ६२७ ।। प्रातः प्रातर्दिव्यगन्धैरम्बुवाह इवाऽम्बुभिः । चेलोत्क्षेपं पुरीमेतामभितोऽप्यभिषिञ्चतु ।। ६२८ ।। मालाकार इवोच्चित्य ग्रन्थित्वा च सदा स्वयम् । पुष्पाणि पूरयत्वेष देवतावसरादिषु ।। ६२९ ।। एवं विधानि कर्माणि कुर्वन्नेष सुतस्तव । पुनर्गृह्णातु राज्यं स्वं मत्प्रसादाच्च नन्दतु ।। ६३० ।। एवं करिष्यतीत्युक्ते सहस्रारेण रावणः । मुमोच शक्रं कारायाः सत्कृत्य निजबन्धुवत् ।। ६३१ ।। रथनूपुरमेत्येन्द्रस्तस्थावुद्विग्न उच्चकैः । तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् ।। ६३२ ।। निवार्णसङ्गमो नाम ज्ञानी तत्राऽन्यदा मुनिः । समवासरदिन्द्रोऽपि तं वन्दितुमुपाययौ ।। ६३३ ।। भगवन् ! कर्मणा केन रावणादिदमासदम् ।न्यक्कारमिति शक्रेण पृष्टः स मुनिरब्रवीत् ।। ६३४ ।। श्रीमत्यरिञ्जयपुरे पुरा विद्याधराग्रणीः । नाम्ना ज्वलनसिंहोऽभूद्वेगवत्यस्य तु प्रिया ।। ६३५ ॥ अहिल्या नाम दुहिता रूपवत्यभवत्तयोः । तस्या स्वयंवरेऽभ्येयुः सर्वे विद्याधरेश्वराः ।। ६३६ ॥ आनन्दमाली तत्राऽऽगाच्चन्द्रावर्तपुरेश्वरः । सूर्यावर्तपुरेशस्त्वमागान्नाम्ना तडित्प्रभः ।। ६३७ ॥ सहाऽऽयातमपि त्यक्त्वा त्वामहिल्या निजेच्छया । आनन्दमालिनं ववे तवाऽभूच्च पराभवः ।। ६३८ ।। आनन्दमालिनीालुस्त्वमभूस्तत्प्रभृत्यपि । मयि सत्यप्यसावेतामहिल्यामूढवानिति ।। ६३९ ।। आनन्दमाली निर्वेदादन्यदा व्रतमग्रहीत् । तप्यमानस्तपस्तीव्र व्यहार्षीच्च सहर्षिभिः ।। ६४० ।। विहरन स रथावर्त जगाम गिरिमेदका । त्वया च ददृशेऽस्मारि चाऽहिल्यायाः स्वयंवरः ।। ६४१ ।।
रावणस्य जयः। सहसारेण पितृभिक्षायाचनम् । इन्द्रस्य पूर्वभव
वर्णनम् ।
।। ५६ ॥