________________
त्रिषष्टिशलाकापुरुषचरिते
॥५५॥
| सप्तमं पर्व | द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
द्वावपीभौ महाप्राणौ दन्तैर्दन्तान् प्रजघ्नतुः । उत्थापयन्तौ स्फुलिङ्गानरण्युन्मथनादिव ।। ६११ ।। मिथोघातैर्विषाणेभ्यः सौवर्णवलयावलिः । पपातोया विरहिणीबाहुभ्य इव तत्क्षणम् ।। ६१२ ।। तद्दन्तघातक्षुण्णेभ्यः शरीरिभ्यो निरन्तरम् । गण्डेभ्यो मदधारावद्रक्तधाराः प्रसुस्रुवुः ।।६१३ ।। क्षणाच्छल्यैः क्षणाद् बाणैः क्षणादपि च मुद्गरैः । गजाविवाद्वितीयौ तौ रावणेन्द्रौ प्रजघ्नतुः ।। ६१४ ।। महाबलौ पिपिषतुरस्त्रैरस्त्राणि तौ मिथः । नैकोऽप्यहीयतैकस्मादब्धी पूर्वापराविव ।। ६१५ ॥ बाध्यबाधकताभाग्भिागुत्सर्गाऽपवादवत् । मन्त्रास्त्रैरप्ययुध्येतां तौ रणक्रतुदीक्षितौ ।। ६१६ ।। गाढं मिलितयोरेकवृन्तस्थफलयोरिव । ऐरावणभुवनालङ्कारयोः करिणोरथ ।। ६१७ ।। छलज्ञो रावणः स्वेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामात्रं बबन्धेन्द्रं करीन्द्रवत् ।।६१८ ।।।।युग्मम् ।। स हस्ती परितोऽधस्ताद्रक्षोवीरैरवेष्ट्यत । हर्षादुत्तालतुमुलैर्मधुमण्ड इवाऽलिभिः ॥६१९ ॥ रावणेन धृते शक्रे तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥ २० ॥ सहैवैरावणेनेन्द्रं रावणः शिबिरे निजे । निनाय नायक्यभवत्स्वयं श्रेणिद्वयेऽप्यथ ।। ६२१ ।। ततो निवृत्य लक्षायां जगाम दशकन्धरः । कारायां चाऽक्षिपच्छवं कीरवत्काष्ठपञ्जरे ।। ६२२ ।। सहस्रारः सदिक्पालो लङ्कायामेत्य रावणम् । नमस्कृत्येत्यभाषिष्ट पत्तिवद्रचिताञ्जलिः ।। ६२३ ॥ कैलासमुदधार्षीधो लीलया ग्रोवखण्डवत् । दोष्मता तेन भवता विजिता न त्रपामहे ।। ६२४ ।। तादृशे त्वयि याञ्चाऽपि न पायै मनागपि । तद्याचेऽहं मुञ्च शक्र पुत्रभिक्षां प्रयच्छ मे ।। ६२५ ।। १ अरणिः काष्ठविशेषः । २ विरहवत्याः स्त्रियाः बाहुभ्यः ।३ पाषाणखण्डवत् ।
इन्द्ररावणयोः युद्धम् ।
।। ५५ ।।