________________
त्रिषष्टिशलाकापुरुषचरिते
SS-RR
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
॥५४॥
तस्यैवं वदतोऽभ्येत्य नगरं रथनूपुरम् । चमूभिर्वेष्टयामास दुर्धरो दशकन्धरः ।। ५९६ ॥ पूर्वमेव दशास्येन प्रहितो महितौजसा । अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवः ।। ५९७ ॥ ये केचिदिह राजानो विद्यादोर्वीर्यदर्पिताः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ।। ५९८ ।। दशकण्ठस्य विस्मृत्या भवतश्चाऽऽर्जवादयम् । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाऽधुना ।। ५९९ ।। भक्तिं दर्शय तत्तस्मिन् शक्तिं वा दर्शयाऽधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनक्ष्यसि ।।६०० ।। इन्द्रोऽपि निजगादैवं वराकैः पूजितो नृपैः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ।। ६०१ ॥ यथा तथा गतः कालो रावणस्य सुखाय सः । कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥६०२ ।। गत्वा स्वस्वामिनो भक्ति शक्ति वा मयि दर्शय । स भक्तिशक्तिहीनश्चेदेवमेव विनक्ष्यति ॥ ६०३ ।। दूतेनाऽऽगत्य विज्ञप्तो रावणः कोपदारुणः । समनह्यन्महोत्साहः समं सकलसैनिकैः ।।६०४ ।। द्रुतमिन्द्रोऽपि सन्नह्य निर्ययौ रथनूपुरात् । वीरा हि न सहन्तेऽन्यवीराहकाराडम्बरम् ॥६०५ ॥ सामन्ताः सह सामन्तैः सैनिकाः सैनिकैः पुनः । सेनानीभिश्च सेनान्यो द्वयोर्युयुधिरे तयोः ॥६०६ ।। तयोर्बलानामन्योऽन्यं सम्फेटः शस्त्रवर्षिणाम् । संवर्तपुष्करावर्तवारिदानामिवाऽभवत् ।।६०७ ॥ वराकैः सैनिकैरेभिः किं हतैर्मशकैरिव ? । इति ब्रुवाणो भुवनालङ्कारकरिपुङ्गवम् ॥६०८ ॥ स्वयमारुह्य युद्धायाऽधिज्यकृतशरासनः । अढौकतैरावणस्थेन्द्रेण सह रावणः ।। ६०९ ।।
॥युग्मम् ।। नागपाशमिवाऽन्योऽन्यं मुखयोः करवेष्टनैः । वितन्वानौ मिमिलतुः करिणौ रावणेन्द्रयोः ।। ६१०।।
इन्द्राय पितृशिक्षा,
इन्द्ररावणयोः युद्धम् ।
॥ ५४ ।।