________________
त्रिषष्टिशलाकापुरुषचरिते
॥५३॥
सप्तमं पर्व द्वितीयः सर्गः
रामलक्ष्मणरावणचरितम् ।
एकान्तविक्रमः क्वाऽपि विपदेऽपि प्रजापते । एकान्तविक्रमान्नाशं शरभाद्याः प्रयान्ति हि ।। ५८२ ।। बलीयसो बलिभ्योऽपि प्रसूते हि वसुन्धरा । सर्वेभ्योऽप्यहमोजस्वीत्यहङ्कारं स्म मा कृथाः ॥ ५८३ ।। उत्थितोऽस्त्यधुना वीरः सर्ववीरत्वतस्करः । प्रतापेन सहस्रांशुः सहस्रांशुनियन्त्रकः ।। ५८४ ।। हेलोत्पाटितकैलासो मरुत्तमखभअनः । जम्बूद्वीपेशयक्षेन्द्रेणाप्यऽक्षोभितमानसः ॥ ५८५ ।। उपार्हन्निजदोर्वीणागीततोषितचेतसः । धरणेन्द्रादमोघाप्तशक्तिः शक्तित्रयोर्जितः ।। ५८६ ।। भ्रातृभ्यां स्वानुरूपाभ्यां स्वभुजाभ्यामिवोत्कटः । रावणो नाम लङ्केशः सुकेशकुलभास्करः ।। ५८७ ।।
॥चतुर्भिः कलापकम् ।। स यमं हेलयाऽभाङ्क्षीत् पतिं वैश्रवणं च ते । पत्तीचक्रे वानरेन्द्र सुग्रीवं वालिसोदरम् ।। ५८८ ॥ दुर्लचवह्निप्राकारं दुर्लचपुरमस्य च । प्रविष्टस्याऽनुजो बद्ध्वा जग्राह नलकूबरम् ।। ५८९ ॥ स त्वां प्रत्यापतन्नस्ति युगान्ताग्निरिवोद्धतः । प्रणिपातसुधावृष्ट्या शमनीयोऽन्यथा न तु ।। ५९० ।। रूपिणीं च सुतामस्मै यच्छ रूपवतीमिमाम् । एवं ह्युत्तमसन्धान सम्बन्धात्ते भविष्यति ।। ५९१ ।। एवं पितृवचः श्रुत्वा कुप्यन्नेवमुवाच सः । कन्यका स्वा कथङ्कारमस्मै वध्याय दीयते ? ॥ ५९२ ।। किं च नाऽधुनिकं वैरममुना किं तु वंशजम् । तातं विजयसिहं प्रागेतद्गृहितं स्मर ।। ५९३ ।। एतत्पितामहस्याऽपि मालिनो यन्मया कृतम् । तदस्याऽपि करिष्यामि समायात्वेषको ह्ययम् ? ॥ ५९४ ।। स्नेहतः कातरो मा भूः सहजं धैर्यमाश्रय । स्वसूनोः सर्वदा दृष्टं किं न वेत्सि पराक्रमम् ? ॥ ५९५ ।। १ अधपदाद्याः । २ सहस्रांशुः सूर्यः । ३ सहस्रांशु म राजा तन्नियन्त्रिकः । ४ कैलासोऽधपदगिरिः । ५ अर्हत्समीपे निजदोर्वीणाया गीतेन प्रसन्नं चित्तं यस्य तस्मात् । ६ प्रभुमन्त्रोत्साहरूपास्तिस्रः शक्तयः । ७ अस्य रावणस्य । ८ अभ्यागच्छन् ।९ एतत्पक्ष्यैः ।
इन्द्ररावणयोः युद्धम् ।
।। ५३ ।।