________________
त्रिषष्टिशलाका
पुरुषचरिते
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
॥५२॥
सा समायातु विद्यां ते प्रयच्छतु स च द्विषन् । वश्योऽस्तु मा भजेथास्तां वाचोयुक्त्या परित्यजेः ।। ५६७ ॥ यावद् बिभीषणवचोऽनुमेने तद्दशाननः । तावदागादुपरम्भा तत्परीरम्भलम्पटा ।। ५६८ ॥ ददौ चाऽऽशालिका विद्यां पत्या वप्रीकृतां पुरे । मोघेतराणि शस्त्राणि व्यन्तराधिष्ठितानि च ।। ५६९ ।। दशास्यः सञ्जहाराऽग्निप्राकारं विद्यया तया । प्रविवेश च दुर्लपुरं सबलवाहनः ।। ५७० ।। उत्तस्थे चाऽथ सन्नह्य रणाय नलकूबरः । बिभीषणेन चाऽग्राहि चर्मभस्त्रेव दन्तिना ।। ५७१ ।। देवासुरैरप्यजय्यं शक्रसम्बन्धि दुर्धरम् । चक्र सुदर्शनं नाम तत्र प्राप च रावणः ।। ५७२ ।। प्रणताय ततस्तस्मै दशास्यस्तत्पुरं ददौ । अर्थिनोऽर्थेषु न तथा दोष्मन्तो विजये यथा ।। ५७३ ।। उपरम्भामप्युवाच दशास्यः स्वकुलोचितम् । भद्रे ! भजाऽऽत्मभर्तारं कर्तारं विनयं मयि ।। ५७४ ।। विद्यादानाद्गुरुस्थाने मम त्वमसि सम्प्रति । स्वसृमातृपदे पश्याम्यन्या अपि परस्त्रियः ।। ५७५ ।। पुत्री कामध्वजस्याऽसि सुन्दर्युदरसम्भवा । कुलद्वयविरुद्धायाः कलो मा स्म भूत्तव ।। ५७६ ।। तामित्युक्त्वाऽर्पयामास नलकूबरभूभुजे । अदुषितां पितुर्गेहे रेषित्वेव समागताम् ।। ५७७ ।। नलकूबरराजेन कुम्भकर्णाग्रजोऽर्चितः । चचाल सह सेनाभी रथनूपुरपत्तनम् ।। ५७८ ॥ आयान्तं रावणं श्रुत्वा सहस्रारो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेहपूर्वमभाषत ।। ५७९ ॥ भवता वत्स! जातेन वंशोऽस्माकं महौजसा । अन्यवंशोन्नतिं हत्वा प्रापितः प्रोन्नतिं पराम् ।। ५८० ॥ एकेन विक्रमेणैव त्वया हीदमनुष्ठितम् । नीतीनामप्यवकाशो दातव्यः सम्प्रति त्वया ॥ ५८१ ॥ १ सफलानि । २ रोपं कृत्वा ।
नलकुबरपल्या दशास्याय आशालिका विद्यादानम् रावणस्य सुदर्शनचक्रस्य प्राप्तिः ।
॥ ५२ ॥