________________
त्रिषष्टिशलाका
पुरुषचरिते
॥५१ ।।
आशालीविद्यया वह्निमयं वप्रमथ व्यधात् । स्वपुरे योजनशतप्रमाणं नलकूबरः ।। ५५२ ।। हुताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रदीपनमिव व्योम्नि कुर्वाणानि शिखोत्करैः ।। ५५३ ।। तं च वप्रमवष्टभ्याऽवतस्थे नलकूबरः । भटैः परिवृतः कोपाज्ज्वलन् वह्निकुमारवत् ।। ५५४ ।। तेऽप्येत्य कुम्भकर्णाद्यास्तं द्रष्टुमपि नाऽशकन् । ग्रीष्ममध्याह्नमार्तण्डमिव सुप्तोत्थिता नराः ।। ५५५ ।। दुर्लङ्घमेतद्दुर्लवपुरमित्यपसृत्य ते । भग्नोत्साहाः कथमपि दशास्याय व्यजिज्ञपन् ।। ५५६ ।। स्वयं दशास्यस्तत्राऽगात्तं वप्रं प्रेक्ष्य तादृशम् । अपश्यंस्तद्ग्रहोपायं चिरं दध्यौ सबान्धवः ।। ५५७ ।। अनुरक्ता दशास्यस्य नलकूबरपल्यथ । प्रैषीद् दूतीमुपरम्भा सा तमेत्यैवमब्रवीत् ।। ५५८ ।। जयश्रीरिव मूर्तीपरम्भा त्वयि रिरंसते । सा त्वद्गुणैर्हृतमनास्तत्र मूर्त्यैव तिष्ठति ।। ५५९ ।। इमां च विद्यामाशालीमस्य वप्रस्य रक्षिकाम् । करिष्यति तवाऽऽयत्तामात्मानमिव मानद ! ।। ५६० ।। ग्रहीष्यति तया चेदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं दैवं नाम्ना सुदर्शनम् ।। ५६१ ।। सप्रहासं दशास्येन वीक्षितोऽथ बिभीषणः । एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम् ।। ५६२ ॥ अथ क्रुद्धो दशग्रीव आबभाषे बिभीषणम् । अरे ! कुलविरुद्धं किं प्रतिपन्नमिदं त्वया ।। ५६३ ।। हृदयं जातुचिद्दत्तं परस्त्रीणां न कैरपि । अस्मत्कुलभवैर्मूढ ! रणे पृष्ठं द्विषामिव ।। ५६४ ।। नवः कुलकलङ्कोऽयं वचसाऽपि कृतस्त्वया । रे बिभीषण ! केयं ते मतिर्येनेदमब्रवीः ? ।। ५६५ ।। बिभीषणोऽप्युवाचैवं प्रसीदाऽऽर्य ! महाभुज ! । न वाग्मात्रं कलङ्काय विशुद्धमनसां नृणाम् ।। ५६६ ॥ १ स्वगृहे मूर्त्या - केवलशरीरेणैव तिष्ठति, मनस्तु त्वयि वर्तत इति भावः ।
**
सप्तमं पर्व द्वितीयः
सर्गः
रामलक्ष्मण
रावणचरितम् ।
आशाली विद्यया वह्निमयव
प्रविधानम् ।
1149 11