________________
त्रिषष्टिशलाकासुरुषचरिते
॥५०॥
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाऽद्य मत्कृते ।। ५३६ ।। पिशुनानामिवाऽवाच्यं नाऽयाच्यं बत मादृशाम् । कल्पगुणामिवाऽदेयं नाऽस्ति किञ्चित्तु तादृशाम् ।। ५३७ ।। सर्वथा गच्छ माताऽसि नाऽतः परमिमं जनम् । पश्य भाषस्व सा पापराशिं पत्याज्ञयाऽपि हि ।। ५३८ ।। तत्र च च्छन्नमागत्य राजा शुश्राव तद्वचः । सुहृदः सत्त्वमालोक्य प्रकर्षेण जहर्ष च ।। ५३९ ।। बनमालां नमस्कृत्य विसृज्य प्रभवोऽपि हि । स्वशिरच्छेत्तुमारेभे खड्गमाकृष्य दारुणम् ।। ५४० ॥ आविर्भूय सुमित्रोऽपि मित्र ! मा साहसं कृथाः । इति जल्पन्नपाहार्षीत् कृपाणं तस्य पाणितः ॥५४१ ।। विविक्षन्निव वसुधां प्रभवोऽधोमुखो ह्रिया । कथञ्चन सुमित्रेण स्वस्थावस्थामनायि सः ॥ ५४२ ।। चक्रतुस्तौ चिरं राज्यं प्राग्वन्मैत्रीपरायणौ । सुमित्रस्तु परिव्रज्य मृत्वेशानसुरोऽभवत् ।। ५४३ ।। ततव्युत्वा मथुरेशहरिवाहणनन्दनः । त्वं सुबाहुर्मधुनामा माधवीकुक्षिभूरभूः ।। ५४४ ।। प्रभवोऽपि भवं भ्रान्त्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इति नाम्ना तनूरुहः ।। ५४५ ॥ निदानं तपः कृत्वा कालयोगाद्विपद्य च । अभवं चमरेन्द्रोऽहं पूर्वजन्मसुहृत्तव ।। ५४६ ॥ इत्याख्याय स मेऽदत्त शूलमेतदुपेत्य यत् । आयोजनद्विसहस्याः कृत्वा कार्य निवर्तते ।। ५४७ ।। इति श्रुत्वा दशग्रीवो भक्तिशक्तिविराजिने । ददौ मधुकुमाराय कयां नाम मनोरमाम् ।। ५४८ ।। अथ लङ्काप्रयाणाहाद्वर्षेष्वष्टादशस्वगात् । स्वर्णाद्रौ पाण्डके चैत्यान्या 'तुं दशकन्धरः ।। ५४९ ।। सोत्कण्ठस्तत्र चैत्यानि दशकण्ठोऽभ्यवन्दत । ऋद्ध्या महत्या सङ्गीतपूजोत्सवपुरःसरम् ॥ ५५० ।। दुर्लचनगरेऽथेन्द्रदिक्पालं नलकूबरम् । ग्रहीतुं कुम्भकर्णाद्या दशग्रीवाज्ञया ययुः ।। ५५१ ।।
प्रभवस्य वनमालायामनुरागः।
॥ ५० ॥