________________
त्रिषष्टिशलाकापुरुषचरिते
।।४९॥
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अवोचच्चमरश्चैवं धातकीखण्डनामनि । द्वीप ऐरावतक्षेत्रे शतद्वारे महापुरे ।। ५२१ ॥ सुमित्रो राजपुत्रोऽभूत्प्रभवः कुलपुत्रवः । उभावभूतां ते मित्रे वसन्तमदनाविव ।। ५२२ ।। ।। युग्मम् ।। गुरोरेकस्य पार्श्वे तौ बाल्ये जगृहतुः कलाः । सह चिक्रीडतुश्चाऽविप्रयुक्तावश्विनाविव ।। ५२३ ।। उद्यौवनः सुमित्रोऽथ तत्राऽभून्नगरे नृपः । महर्द्धिर्विदधे तेन प्रभवोऽप्यात्मसन्निभः ।। ५२४ ॥ राजैकदा तुरङ्गेण हतः प्राप महाटवीम् । पल्लीपतिसुतां तत्र वनमालामुपायत ।। ५२५ ।। तामादाय समायातः स राजा स्वपुरे पुनः । प्रभवेण च सा प्रैक्षि रूपयौवनशालिनी ।। ५२६ ।। तद्दर्शनात्प्रभृत्येव स मनोभवपीडितः । दिने दिने कृशो जज्ञे कृष्णपक्ष इवोडुपः ।। ५२७ ।। असाध्यं मन्त्रतन्त्राणां तं ज्ञात्वाऽतिकृशं नृपः । इत्यूचे बाधते किं ते ? सम्यगाख्याहि बान्धव !।। ५२८ ।। अभ्यधात्प्रभवोऽप्येवं वक्तुमेतन्न शक्यते । अलं कुलकलङ्काय यन्मनःस्थमपि प्रभो! ।। ५२९ ।। निर्बन्धाद्भूभुजा पृष्टः स आख्यत् कुलपुत्रकः । वनमालानुरागो मे देहदौर्बल्यकारणम् ।। ५३० ॥ राजाऽप्यूचे राज्यमपि त्वदर्थे सन्त्यजाम्यहम् । किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् ।। ५३१ ।। इत्युक्त्वा तं विसृज्याऽथ तस्याऽनुपदमेव ताम् । स्वयं दूतीमिव प्रेषीत्तदोकसि निशामुखे ॥५३२ ।। इत्यूचे साऽपि राज्ञाऽहं तुभ्यं दत्ताऽस्मि सीदते । जीवातुरिव तच्छाधि पत्याज्ञा मे बलीयसी ।। ५३३ ।। मम भर्ता त्वदर्थे हि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीनः किमीक्षसे ? ।। ५३४ ।। बभाषे प्रभवोऽप्येवं धिग्धिङ् मां निरपत्रपम् । अहो ! स तु महासत्त्वो यस्येदृक् सौहृदं मयि ।। ५३५ ।। १ अवियोगिनौ । २ दुःखिने ।
प्रभवस्य वनमालायामनुरागः।
॥४९ ।।