________________
त्रिषष्टिशलाकापुरुषचरिते
॥४८॥
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
श्रुत्वा ब्रह्मरुचिस्तत्तु प्रपन्नजिनशासनः । तदैव प्राव्रजत्सा च कूर्म्यभूच्छ्राविका परा ।। ५०७ ।। मिथ्यात्ववर्जिता तत्र सा वसन्त्याश्रमे सुतम् । सुषुवे नारदं नाम रोदनादिविवर्जितम् ।। ५०८ ।। गतायाश्चाऽन्यतस्तस्यास्तं जहुर्जुम्भकामराः । पुत्रशोकादिन्दुमालासविधे प्राव्रजच्च सा ।। ५०९ ।। तेऽमराः पालयामासुः शास्त्राण्यध्यापयंश्च तम् । आकाशगामिनी विद्यां ददुस्तस्मै क्रमेण च ।। ५१० ।। अणुव्रतधरः प्राप यौवनं च मनोहरम् । स शिखाधारणान्नित्यं न गृहस्थो न संयतः ।। ५११ ।। कलहप्रेक्षणाकाङ्क्षी गीतनृत्यकुतूहली । सदा कन्दर्पकौकुच्यमौखर्यात्यन्तवत्सलः ॥ ५१२ ।। वीराणां कामुकानां च सन्धिविग्रहकारकः । छत्रिकाऽक्षवृषीपाणिरारूढः पादुकासु च ।। ५१३ ॥ देवैः संवर्धितत्वाच्च देवर्षिः प्रथितो भुवि । प्रायेण ब्रह्मचारी च स्वेच्छाचार्येष नारदः ।। ५१४ ।। इत्युक्तवन्तं लङ्केशमज्ञानकृतमात्मनः । मरुत्तः क्षमयामासाऽपराधं मखसम्भवम् ।। ५१५ ।। मरुत्तराजः स्वां कन्यां नामतः कनकप्रभाम् । तदा ददौ दशास्याय दशास्योऽप्युदुवाह ताम् ।। ५१६ ॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः । ततो जगाम मथुरा नगरी गुरुविक्रमः ।।५१७ ।। उपतस्थे दशग्रीवं तन्नृपो हरिवाहनः । पुत्रेण मधुना सार्धमीशानेनेव शूलिना ।। ५१८ ।। तं भक्त्योपस्थितं प्रीतोऽवार्तयद्दशकन्धरः । पप्रच्छैव भवत्सूनोः कुतोऽदः शूलमायुधम् ? ।। ५१९ ।। पिता भ्रूसञ्जयाऽऽदिष्टो मधुरं मधुरभ्यधात् । इदं मे चमरेन्द्रेण प्राग्जन्मसुहृदाऽर्पितम् ।। ५२० ।। १ कामचेष्टितवाचालत्वयोरत्यन्तवत्सलः । २ दर्भासनविशेषो वृषी । ३ ईशानेन्द्रेण ।
रावणः मरुत्तं नारदपरिचयं कारयति।
॥४८ ॥