________________
त्रिषष्टिशलाकापुरुषचरिते
॥४७॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
मांसस्य भक्षणं तेषां कर्तव्यं यज्ञकर्मणि । यायजूकेन पूतं हि देवोद्देशेन तत्कृतम् ॥ ४९२ ।। इत्यादि समुपादिश्य सगरे स्वमतस्थिते । अन्तर्वेदि कुरुक्षेत्रादिषु सोऽकारयन्मखान् ।। ४९३ ॥ स लब्धप्रसरोऽकार्षीद्राजसूयादिकानपि । असुरोऽप्यध्वरहतान् विमानस्थानदर्शयत् ।। ४९४ ।। ततः सप्रत्ययो लोकः प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत्तस्य पर्वतस्य मते स्थितः ।। ४९५ ।। तत्प्रेक्ष्याऽहं तदा विद्याधरं नाम्ना दिवाकरम् । अवोचं यत्त्वया यज्ञे हर्तव्याः पशवोऽखिलाः ॥ ४९६ ॥४ प्रतिपद्य स मे वाचं जड़े यावत्पशून मखे । परमाधार्मिकस्तावत्तदज्ञासीत्सुराधमः ।। ४९७ ।। ऋषभप्रतिमां तत्र तद्विद्याघातनाय सः । अस्थापयन्महाकाल उपारंसीच्च खेचरः ।। ४९८ ।। ततोऽहमपि तूष्णीकः क्षीणोपायोऽन्यतोऽभ्यगाम् । यज्ञेषु भावयामास सगरं सोऽथ मायया ।। ४९९ ॥ सगरं सुलसायुक्तं स जुहावाऽध्वरानले । कृतकृत्यो जगामाऽथ महाकालः स्वमाश्रयम् ।। ५००॥ एवं च पर्वतात्पापपर्वताध्वरा द्विजैः । हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैव हि ।। ५०१ ॥ तद्वाचमुररीकृत्य प्रणिपत्य च नारदम् । मरुत्तात् क्षमयित्वा च विससर्ज दशाननः ।। ५०२ ।। मरुत्तो रावणं नत्वोवाच कोऽयं कृपानिधिः । पापादमुष्माद्यो ह्यस्मांस्त्वया स्वामिन्यवारयत् ? ॥ ५०३ ॥ आचख्यौ रावणोऽप्यासीन्नाम्ना ब्रह्मरुचिर्द्विजः । तापसस्य सतस्तस्य भार्या कूर्मीति गुळभूत् ।। ५०४ ।। तत्रेयुः साधवोऽन्येधुस्तेष्वेकः साधुरब्रवीत् । भवभीत्या गृहवासत्यक्तो यत्साधु साधु तत् ।। ५०५ ॥ भूयः स्वदारसङ्गस्य विषयैर्लुप्तचेतसः । गृहवासाद्वने वासः कथं नाम विशिष्यते ? ।। ५०६ ॥ १ पुनः पुनर्यजतीति यायजूकस्तेन । २ गर्भवती ।
%25AHARASASHASASHA5805
रावणेन पृष्टस्य यज्ञोत्पत्तेवर्णनम् ।
।। ४७ ॥