________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
॥४६॥
नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्पक्षं पूरयिष्यामि मन्त्रैर्विश्वं विमोहयन् ।। ४७९ ।। इत्युक्त्वा पर्वतयुतः कुधर्मेणाऽखिलंजनम् । असुरो मोहयामास दुर्गतौ पातनाय सः ।। ४८० ।। व्याधिभूतादिदोषांश्च सर्वत्राऽजनयज्जने । प्रपन्नपर्वतमतं निर्दोषं च चकार सः ।। ४८१ ।। शाण्डिल्यस्याऽऽज्ञया सोऽपि रुक्छन्तिं पर्वतो व्यधात् । उपकृत्योपकृत्य स्वमते चाऽस्थापयज्जनम् ॥ ४८२ ।। सगरस्याऽपि नगरेऽन्तःपुरेऽथ परिच्छदे । विचक्रे सोऽसुरो रोगान् दारुणानतिभूयसः ।। ४८३ ।। लोकप्रत्ययतो भेजे पर्वतं सगरोऽपि हि । चकार शाण्डिल्ययुतो रुक्छान्तिं सोऽपि सर्वतः ।। ४८४ ।। सौत्रामण्यां विधानेन सुरापानं न दुष्यति । अगम्यागमन कार्य यज्ञे गोसवनामनि ॥ ४८५ ।। मातृमेधे वधो मातुः पितृमेधे वधः पितुः । अन्तर्वेदि विधातव्यो दोषस्तत्र न विद्यते ।। ४८६ ।। आशुशुक्षणिमाधाय पृष्ठे कूर्मस्य तर्पयेत् । हविषा जुह्वकाख्याय स्वाहेत्युक्त्वा प्रयत्नतः ॥ ४८७ ।। यदा न प्राप्नुयात् कूर्म तदा शुद्धद्विजन्मनः । खलतेः पिङ्गलाभस्य विक्रियस्य शुचौ जले ॥४८८ ।। आस्यदघ्नेऽवतीर्णस्य मस्तके कूर्मसन्निभे । प्रज्वाल्य ज्वलनं दीप्तमाहुतिं प्रक्षिपेद् द्विजः ॥ ४८९ ।।
॥युग्मम् ॥ सर्वं पुरुष एवेदं यद्भूतं यद्भविष्यति । ईशानो योऽमृतत्वस्य यदन्नेनाऽतिरोहति ॥ ४९० ॥ एवमेकत्र पुरुषे किं केनाऽत्र विपद्यते ? । कुरुताऽतो यशाभीष्टं यज्ञे प्राणिनिपातनम् ।। ४९१ ।। १ अङ्गीकृतं पर्वतस्य मतं येन तं नरम् । २ यज्ञविशेषे । ३ अगम्यायाः स्त्रियाः गमनं सङ्गः ! ४ अग्निम् । ५ खलतिः खल्वाटः “टालीयो” इति भाषायाम् । ६ मुखपर्यन्तप्रमागे जले । ७ मोक्षस्येशान ईश्वरः ।
| रावणेन पृष्टस्य यज्ञोत्पत्ते
वर्णनम् ।
।। ४६ ॥