________________
त्रिषष्टिशलाकापुरुषचरिते
॥४५॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अयोधनस्वसा सत्ययशा नाम महीपतेः । तृणबिन्दोरभूद्भार्या मधुपिङ्गस्तयोः सुतः ।। ४६४ ।। तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि! । प्रदित्सते त्वत्पिता त्वां स्वयंवरवराय तु ।। ४६५ ।। न जाने कं वृणोषि त्वं ? मनःशल्यमिदं मम । वरणीयस्त्वया राजमध्ये मद्भातृजस्ततः ।। ४६६ ॥ सुलसाऽपि हि तच्छिक्षां तथैव प्रत्यपद्यत । मन्दोदर्यपि तच्छ्रुत्वाऽऽचख्यौ सगरभूपतेः ।। ४६७ ॥ सगरोऽप्यादिशद्विश्वभूतिं निजपुरोधसम् । सद्यः कविः सोऽपि चक्रे नृपलक्षणसंहिताम् ॥ ४६८ ।। तत्रोचे स तथा येन समस्तै राजलक्षणैः । सगरो जायते युक्तो हीनस्तु मधुपिङ्गलः ।। ४६९ ॥ तत्पुस्तकं तु पेटायां स चिक्षेप पुराणवत् । राजाज्ञयाऽन्यदाऽऽकृष्टं तेन तद्राजपर्षदि ।। ४७० ।। तत्राऽऽदौ सगरोऽवोचद्वाच्यमानेऽत्र पुस्तके । भवेल्लक्षणहीनो यो वध्यस्त्याज्यश्च सोऽखिलैः ।। ४७१ ।। यथा यथाऽवाचयत्तत्पुस्तकं स पुरोहितः । तथा तथा स जिहाय मधुपिङ्गोऽपलक्षणः ।। ४७२ ।। निर्ययौ मधुपिङ्गोऽथ सगरं सुलसाऽवृणोत् । जज्ञे विवाहः सद्योऽपि सर्वे स्वं स्थानमभ्ययुः ॥ ४७३ ।। मधुपिङ्गोऽप्यपमानात् कृत्वा बालतपो मृतः । महाकालाभिधः षष्टिसहस्रशोऽसुरोऽभवत् ।। ४७४ ।। अज्ञासीदवधेः सोऽथ सगरस्य विजृम्भितम् । स्वयंवरे सुलसाया निजं न्यक्कारकारणम् ।। ४७५ ।। राजानं सगरं राज्ञोऽन्यांश्च हन्मीति सोऽसुरः । छिद्रान्वेषी शुक्तिमतीनद्यां पर्वतमैक्षत ।। ४७६ ।। विप्रवेषस्ततो भूत्वा गत्वा पर्वतमभ्यधात् । शाण्डिल्यो नाम मित्रं त्वत्पितुरस्मि महामते ! ।। ४७७ ।। धीमतो गौतमाख्यस्योपाध्यायस्य पुरः पुरा । अहं क्षीरकदम्बश्चाऽपठाव सहितावुभौ ॥ ४७८ ।। १ तत्र पुस्तके स विश्वभूतिस्तथोचे रचयामास । २ तिरस्कारकारणम् ।
| रावणेन पृष्टस्य यज्ञोत्पत्ते|वर्णनम् ।
॥ ४५ ॥