________________
सप्तमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते ।।४४॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् ।। ४४८ ।। वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्निव ।। ४४९ ।। देवताभिरसत्योक्तिकुपिताभिर्निपातितः । जगाम नरकं घोरं नरनाथो वसुस्ततः ।। ४५० ॥ वसोः सुताः पृथुवसुश्चित्रवसुश्च वासवः । शक्रो विभावसुर्विश्वावसुः सूरश्च सप्तमः ।। ४५१ ।। अष्टमश्च महाशूरो निषण्णाः पैतृके पदे । देवताभिरहन्यन्त तत्कालमपि कोपतः ।। ४५२ ।। सुवसुर्नवमः सूनु ष्ट्वा नागपुरं ययौ । बृहद्ध्वजो वसोः सूनुर्दशमो मथुरां पुनः ।। ४५३ ।। हसित्वा बहुधा पौरैस्तस्याः पुर्याश्च पर्वतः । निर्वासितः सञ्जगृहे महाकालासुरेण सः ।। ४५४ ।। कोऽयं महाकाल इति पृष्टो दशमुखेन तु । उवाच नारदोऽत्राऽस्ति चारणयुगलं पुरम् ।। ४५५ । राजा तत्राऽयोधनोऽभूद्दितिर्नाम्ना च तत्प्रिया । तयोश्च सुलसा नाम दुहिता रूपशालिनी ।। ४५६ ।। पित्रा स्वयंवरे तस्या आहूताः समुपाययुः । सर्वेऽपि पार्थिवास्तेषु पार्थिवः सगरोऽधिकः ।। ४५७ ।। सगरस्याज्ञया द्वाःस्था मन्दोदर्यभिधानतः । अयोधननृपावासे जगाम प्रतिवासरम् ।। ४५८ ।। एकदा च गृहोद्यानकदलीसदनेऽविशत् । दितिः समं सुलसया मन्दोदर्यपि चाऽऽययौ ।। ४५९ ।। लतान्तरविलीनाऽथ श्रोतुकामा तयोर्वचः । तस्थौ मन्दोदरी प्रोचे दितिश्च सुलसामिति ॥ ४६० ।। वत्से ! मम मनःशल्यमस्ति तेऽस्मिन् स्वयंवरे । त्वदधीनस्तदुद्धारस्तत्सम्यक् शृणु मूलतः ।। ४६१ ।। ऋषभस्वामिनोऽभूतामुभौ वंशधरौ सुतौ । भरतो बाहुबलिश्च सूर्यसोमौ ययोः सुतौ ।। ४६२ ।। सोमवंशो मम भ्राता तृणबिन्दुरजायत । सूर्यवंशे ते पिताऽसावयोधनमहीपतिः ।। ४६३ ।।
| रावणेन पृष्टस्य यज्ञोत्पत्तेवर्णनम् ।
॥ ४४ ।।