________________
त्रिषष्टिशलाकापुरुषचरिते
॥४३॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
वसुरूचे ततो मेऽम्ब ! पाल्यः पूज्यश्च पर्वतः । गुरुवद्गुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः ।। ४३३ ॥ कस्याऽद्य पत्रमुत्क्षिप्तं कालेनाऽकालरोषिणा ? । को जिघांसुर्धातरं मे ? ब्रूहि मातः ! किमातुरा ? || ४३४ ।। अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणं कृतश्चाऽसीत्याख्यायाऽर्थयते स्म सा ॥ ४३५ ॥ कुवार्णो रक्षणं भ्रातुरजान्मेषानुदीरय । प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ? ।। ४३६ ।। अवोचत वसुर्मातर्मिथ्या वच्मि वचः कथम् ? । प्राणात्ययेऽपि शंसन्ति नाऽसत्यं सत्यभाषिणः ।। ४३७ ।। अन्यदप्यभिधातव्यं नाऽसत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ? ।। ४३८ ।। बहूकुरु गुरोः सूनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमस्त पार्थिवः ।। ४३९ ।। ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । अयाव पर्वतोऽहं च वसुराजस्य पर्षदि ।। ४४० ।। सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिना सदसद्वादक्षीरनीरसितच्छदाः ।। ४४१ ।। आकाशस्फटिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः ।। ४४२ ।। ततः पर्वतकोऽहं च व्याख्यापक्षं निजं निजम् । अशंसाव नरेन्द्राय सत्यं ब्रूहीति भाषिणौ ।। ४४३ ।। विप्रवृद्धैरथोचे स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवाऽर्यमा ।। ४४४ ।। घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद्वर्षति पर्जन्यः सत्यात् सिध्यन्ति देवताः ॥ ४४५ ।। त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते! । त्वामिहाऽर्थे ब्रूमहे किं ? ब्रूहि सत्यव्रतोचितम् ॥ ४४६ ॥ वचः श्रुत्वेति तत्सत्यप्रसिद्धिं स्वां निरस्य च । अजान्मेषान् गुरुाख्यदिति साक्ष्यं वसुळधात् ।। ४४७ ।। १ सत्यासत्यौ च तौ वादौ च तावेव दुग्धजले तयोः पृथक्करण इति शेषः सितच्छदा - हंसाः ।
क्षीरकदम्बगुहिण्याः वसुराजापर्षदि गमनम्।
॥४३॥