________________
त्रिषष्टिशलाकापुरुषचरिते
॥४२॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण
चरितम् ।
तत्राऽन्यदाऽहमभ्यागामद्राक्षमथ पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ।। ४१८ ।। अजैर्यष्टव्यमित्यत्र मेषैरित्युपदेशकम् । तमवोचमहं भ्रातन्त्यिा किमिदमुच्यते ? ।। ४१९ ।। त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ? ॥ ४२० ॥ ततः पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ।। ४२१ ।। अवोचमहमप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह गौणी गुरुरचीकथत् ।। ४२२ ।। गुरुर्धर्मोपदेष्टैव श्रुतिधर्मात्मकैव च । द्वयमप्यन्यथा कुर्वन्मित्र! मा पापमर्जय ।। ४२३ ।। साक्षेपं पर्वतोऽजल्पदजान्मेषान् गुरुर्जगौ । गुरूपदेशशब्दार्थोल्लङ्घनाधर्ममर्जसि ।। ४२३ ।। मिथ्याभिमानवाचो हि न स्युर्दण्डभयान्नृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेदपणोऽस्तु नः ।। ४२५ ।। प्रमाणमुभयोरत्र सहाध्यायी वसुर्नृपः । प्रत्यौषमहं तच्च न क्षोभः सत्यभाषिणाम् ।। ४२६ ।। रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यौष भवत्पितुः ।। ४२७ ॥ जिह्वाच्छेदं पणेऽकार्षीर्यद्दत्तिदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ।। ४२८ ।। अवदत्पर्वतोऽप्येवं कृतं तावदिदं मया । यथा तथा कृतस्याऽम्ब ! करणं न हि बिद्यते ।। ४२९ ।। साऽथ पर्वतकापायपीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ? ॥ ४३० ॥ दृष्टः क्षीरकदम्बोऽद्य यदम्ब ! त्वमसीक्षिता । किं करोमि ? प्रयच्छामि किं वेत्यभिदधे वसु ।। ४३१ ॥ साऽवादीद्दीयतां पुत्रभिक्षा मां महीपते ! । धनधान्यैः किमन्यैर्मे विना पुत्रेण पुत्रक! ।। ४३२ ।। १ बुद्धिजुषाम् । २ कोशेषु । ३ अङ्गीचकार ।
वसोः स्फटिकसिंहासनम्,
सत्य
प्रभावप्रसिद्धिः, वसुनाऽजस्य मेषार्थकरणम्, पणे नारदस्य जिहाछेदनम्।
॥ ४२ ॥