________________
त्रिषष्टि
शलाका
पुरुषचरिते
118911
गुरूपदेशो हि यथापात्रं परिणमेदिह । अभ्राम्भः स्थानभेदेन मुक्तालवणतां व्रजेत् ॥ ४०३ ।। प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद्गृहवासेन किं मम ? ।। ४०४ ॥ निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ।। ४०५ ।। भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । पुनरेव निजं स्थानमहं तु गतवांस्तदा ।। ४०६ । नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चाऽभूद्वसू राजा वासुदेवसमः श्रिया ।। ४०७ ।। सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः ।। ४०८ ॥ अथैकदा मृगयुणा मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥ ४०९ ।। इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलामज्ञासीत् पाणिना स्पृशन् ॥ ४१० ॥ सदध्याविति मन्येऽस्यां सङ्क्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशावदर्शि हरिणो मया ।। ४११ ।। पाणिस्पर्शं विना नेयं सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ।। ४१२ ॥ रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृधे जग्राह राजाऽपि ददौ चाऽस्मै महद्धनम् ।। ४१३ ॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नाऽऽत्मीयाः कस्यचिन्नृपाः ॥ ४१४ ॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ।। ४१५ ।। सत्येन तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिशः ।। ४१६ ।। तया प्रसिद्ध्या राजानो भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ ४१७ ॥
१ व्याधेन । २ अन्यतः |
सप्तमं पर्व
द्वितीयः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
वसोः स्फटिकसिंहासनम् ।
।। ४१ ।।