________________
त्रिषष्टिशलाकापुरुषचरिते
॥४०॥
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाऽश्रौषीत्क्षीरकदम्बकः ।। ३८८ ।। तच्छ्रुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं हहा !।। ३८९ ।। एभ्यः को यास्यति स्वर्ग नरकं को च यास्यतः । जिज्ञासुरित्युपाध्यायोऽस्मास्त्रीन् युगपदाह्वयत् ।।३९० ॥ समर्प्य गुरुरस्माकमेकैकं पिष्टकुक्कुटम् । उवाचाऽमी तत्र वध्या यत्र कोऽपि न पश्यति ।। ३९१ ॥ वसुपर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जघ्नतुः पिष्टकुक्कुटौ ।। ३९२ ।। देवीयसि प्रदेशे तु गत्वाऽहं नगराबहिः । स्थित्वा च विजने देशे दिशः प्रेक्ष्येत्यतर्कयम् ।।३९३ ।। गुरुपादैरदस्तावदादिष्टं वत्स ! यत्त्वया । वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ।। ३९४ ।। असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि हि ॥३९५ ।। नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरुगिरां न वध्यः खलु कुक्कुटः ।। ३९६ ।। गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥३९७ ॥ विमृश्यैवमहत्वैव कुक्कुटं चाऽहमागमम् । कुक्कुटाहनने हेतुं गुरोर्व्यज्ञपयं च तम् ।। ३९८ ।। स्वर्ग यास्यत्ययं तावदिति निश्चित्य गौरवात् । आलिङ्गितोऽहं गुरुभिः साधु साध्विति भाषिभिः ।।३९९ ।। वसुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तत्र यत्र कोऽपि न पश्यति ।। ४०० ।। अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्कुटौ रे! पापावित्यशपद्गुरुः ।। ४०१ ॥ ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः । मुधा मेऽध्यापनक्लेशो वसुपर्वतयोरभूत् ।। ४०२ ।। १ आत्मने हिताम् । २ अतिदूरे । ३ असौ कुक्कुटः । ४ निश्चितम् निश्चयेनेति यावत् ।
नारदेन शिष्यत्रयकथावदनम् ।
॥ ४०॥