________________
| सप्तमं पर्व | द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥३९॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
यदि प्राणिवधेनाऽपि स्वर्गो जायेत देहिनाम् । तच्छून्यो जीवलोकोऽयमल्पैरपि दिनैर्भवेत् ।। ३७३ ।। इदं मम वचः श्रुत्वा यज्ञाग्नय इव द्विजाः । क्रुधा ज्वलन्तः प्रोत्तस्थुर्दण्डपट्टकपाणयः ।। ३७४ ।। ततस्तैस्ताड्यमानेन मया प्राप्तोऽसि नश्यता । नदीपूराभिभूतेनाऽन्तरीपमिव रावण! ।। ३७५ ।। निरागसो वध्यमानांस्तत्तैर्नृपशुभिः पशून् । त्रायस्व त्रात एवाऽहं पुनस्त्वदवलोकनात् ।। ३७६ ।। ततो विमानादुत्तीर्य दशास्यस्तद्दिदृक्षया । आनर्चे भूभुजा तेन पाद्यसिंहासनादिना ।। ३७७ ।। क्रुद्धो मरुत्तभूपालं जगादैवं दशाननः । अरे ! किमेष क्रियते नरकाभिमुखैर्मखः ? ।। ३७८ ।। धर्मः प्रोक्तो ह्यहिंसातः सर्वज्ञैस्त्रिजगद्धितैः । पशुहिंसात्मकाद्यज्ञात् स कथं नाम जायताम् ? ॥३७९ ।। लोकद्वयारिं तद्यज्ञं मा कार्षीश्चेत्करिष्यसि । मदुप्ताविह ते वासः परत्र नरके पुनः ॥ ३८० ।। विससर्ज मखं सद्यो मरुत्तनृपतिस्ततः । अलच्या रावणाज्ञा हि विश्वस्याऽपि भयङ्करा ।। ३८१ ॥ अमी पशुवधात्मानः कुतः सञ्जज्ञिरेऽध्वराः ! । इति पृथे दशास्येन निजगादेति नारदः ।। ३८२ ।। अस्ति च दिक्षु विख्याता नाम्ना शुक्तिमती पुरी । शक्तिमत्याख्यया नद्या नर्मसख्येय शोभिता ।। ३८३ ।। गतेष्वनेकभूपेषु सुव्रतान्मुनिसुव्रतात् । अभिचन्द्रोऽभवत्तस्यां राजा राज्यभृतां वरः ॥३८४ ॥ अभिचन्द्रस्य तनयो वसुरित्यभिधानतः । अजायत महाबुद्धिः प्रसिद्धः सत्यवाक्तया ॥ ३८५ ।। पाचँ क्षीरकदम्बस्य गुरोः पर्वतकः सुतः । राजपुत्रो वसुश्चाऽहं चाऽपठाम त्रयोऽपि हि ॥३८६ ।। सुप्तेष्वस्मासु सदनोपरि पाठश्रमान्निशि । चारणश्रमणौ व्योम्नि यान्तावित्यूचतुर्मिथः ।। ३८७ ।। १ मम कारागृहे । २ यज्ञम् । ३ सत्यवादित्वेन । ४ गच्छन्तौ ।
नारदेन शिष्यत्रयकथावदनम् ।
||३९ ।।