________________
सप्तमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥३८॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
अनरण्यनरेन्द्राय वाचिकेन तदैव सः । स्वयमात्तां परिव्रज्यां कथयामास सौहृदात् ।। ३५८ ।। सोऽप्ययोध्याधिपो दध्यौ प्रियमित्रेण तेन मे । सङ्केत एवमभवदादेयं युगपद् व्रतम् ।। ३५९ ।। स्वप्रतिज्ञामिति स्मृत्वा राज्यं दशरथाय सः । दत्वा स्वसूनवे सत्यधनो व्रतमुपाददे ।। ३६० ॥ शतबाहुसहस्रांशू वन्दित्वर्षी दशाननः । सहस्रांशोः सुतं राज्ये न्यस्व चाऽचलदम्बरे ॥३६१ ॥ तदा च नारदमुनिर्यष्टिघातादिजर्जरः । अन्याय इति पूत्कुर्वन्नित्यभाषिष्ट रावणम् ।। ३६२ ।। राजन् ! राजपुरेऽमुष्मिन्मरुत्तो नाम भूपतिः । मिथ्यादृगस्ति कुर्वाण क्रतुं दुर्द्विजवासितः ।।३६३ ।। यज्ञे वधाय चाऽऽनीतान् सौनिकैरिव तद्विजैः । पशूनारटतोऽपश्यं पाशबद्धाननागसः ।। ३६४ ।। ततो व्योम्नोऽवतीर्याऽहं मरुत्तं ब्राह्मणावृतम् । अहो ! किमिदमारब्धमित्यपृच्छं कृपापरः ।। ३६५ ।। अथोवाच मरुत्तोऽपि यज्ञोऽयं ब्राह्मणोदितः । अन्तर्वेदीह होतव्याः पशवो देवतृप्तये ॥३६६ ।। अयं खलु महाधर्मः कीर्तितः स्वर्गहेतवे । यक्ष्यामि पशुभिर्यज्ञं तदेभिरहमद्य भोः ! ।। ३६७ ॥ ततस्तस्याऽहमित्याख्यं वपुर्वेदिरुदीरिता । आत्मा या तपो वह्निर्ज्ञानं सर्पिः प्रकीर्तितम् ॥३६८ ।। कर्माणि समिधः क्रोधादयस्तु पशवो मताः । सत्यं यूपः सर्वप्राणिरक्षणं दक्षिणा पुनः ॥३६९ ॥ त्रिरत्नी तु त्रिवेदीयमिति वेदोदितः क्रतुः । कृतो योगविशेषेण मुक्तेर्भवति साधनम् ।। ३७० ।। क्रेव्यादतुल्या ये कुर्युर्यज्ञं छागवधादिना । ते मृत्वा नरके घोरे तिष्ठेचुर्दुःखिनश्चिरम् ।। ३७१ ॥ उत्पन्नोऽस्युत्तमे वंशे बुद्धिमानृद्धिमानसि । राजन् ! व्याधोचितादस्मान्निवर्तस्व तदेन॑सः ।। ३७२ ॥ १ चाण्डालैः । २ निरपराधिनः । ३ यज्ञकर्ता । ४ ज्ञानदर्शनचारित्राणि । ५ राक्षसतुल्याः । ६ तत्पापात् ।
नारदेन मरुत्तकृतायथार्थयज्ञवर्णनम् ।
।।३८ ।।