________________
त्रिषष्टिशलाकापुरुषचरिते
॥३७॥
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
विश्वास इव मूर्तिस्थो विश्वाश्वासनबान्धवः । धर्मलाभाशिषं तस्मै सोऽदात् कल्याणमातरम् ।। ३४३ ।। बद्ध्वाऽअलिं रावणेन समागमनकारणम् । मुनिप्रष्ठः परिपृष्थेऽभाषिष्टाऽदुष्टया गिरा ।। ३४४ ।। शतबाहुरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भववासादितो भीतः शार्दूलः पावकादिव ।। ३४५ ।। सहस्रकिरणे राज्यमारोप्य निजनन्दने । मोक्षाध्वस्यन्दनप्रायमहं व्रतमशिश्रियम् ।। ३४६ ।। इत्योक्ते दशग्रीवो नमद्ग्रीवोऽब्रवीदिति । किमसौ पूज्यपादानामङ्गजन्मा महाभुजः ?।। ३४७ ।।
ओमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिग्जयाय क्रमेणाऽहमिहाऽऽगच्छं नदीतटे ।। ३४८ ॥ दत्तावासस्तटेऽमुष्मिञ्जिनार्चा विकचाम्बुजैः । अर्चित्वा यावदेकाग्रमानसस्तन्मयोऽभवम् ।। ३४९ ।। अमुना तावदुन्मुक्तैर्निजस्नानमलीमसैः । वारिभिः प्लाविता पूजा तेनाऽकार्षमिदं क्रुधा ।। ३५० ।। ।। युग्मम् ।। अज्ञानादमुनाऽप्येतत् कृतं मन्ये महात्मना । त्वत्सूनुरेष किं कुर्यादर्हदाशातनां क्वचित् ? ।। ३५१ ॥ एवमुक्त्वा सहस्रांशुं नत्वाऽऽनैषीद्दशाननः । लज्जानम्राननः सोऽपि ननाम पितरं मुनिम् ।। ३५२ ।। रावणस्तं बभाणैवं भ्राता मे त्वमतः परम् । तवेवायं ममाऽप्येष शतबाहुमुनिः पिता ।। ३५३ ।। गच्छ शाधि निजं राज्यं गृहाणाऽन्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्वं चतुर्थोऽस्यंशभाक् श्रियः ।। ३५४ ।। एवमुक्तश्च मुक्तश्च सहस्रांशुरदोऽवदत् । न हि राज्येन मे कृत्यं वपुषा वाऽप्यतः परम् ॥३५५ ॥ पित्राऽऽश्रितं श्रयिष्यामि व्रतं संसारनाशनम् । अयं हि पन्थाः साधूनां निर्वाणमुपतिष्ठते ।। ३५६ ॥ इत्युदीर्य दशास्याय समर्प्य तनयं निजम् । व्रतं चरमदेहः स पितृपादान्तिकेऽग्रहीत् ।। ३५७ ॥ १ मुनीनां प्रष्ठ श्रेष्ठः । २ मोक्षम् ।
शतबाहोर्दीक्षा ।
।।३७ ।।