________________
| सप्तमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥३६॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
उच्चस्तेनैवमादिष्टा अनुचरास्ते दधाविरे । लक्षशो राक्षसभटा रेवोर्मय इवोद्भटाः ।। ३२९ ।। तीरस्थितैः सहस्रांशुसैनिकैः सह ते रणम् । गजा वनान्तरगजैरिव चक्रुर्निशाचराः ।। ३३० ।। विद्याभिर्मोहयन्तस्ते भूमिष्ठांस्तान्नभःस्थिताः । उपदुद्रुवुरम्भोदाः शरभान करकैरिव ।।३३१ ।। स्वानुपद्रूयमाणांस्तु प्रेक्ष्य क्रोधधुताधरः । बलत्पताकहस्तेनाऽऽश्वासयत् प्रेयसीर्निजाः ।। ३३२ ।। ऐरावणः सुरसिन्धोरिव रेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यं च धनुर्व्यधात् ।। ३३३ ।। बाणैर्विद्रावयामास रक्षोवीरान्नभ स्थितान् । सहस्रांशुर्महाबाहुस्तृणपूलानिवाऽनिलः ।। ३३४ ।। व्यावृत्तांस्तान् रणात्प्रेक्ष्य सङ्घद्धो रावणः स्वयम् । उपतस्थे सहस्रांशुमभिवर्षञ्छेिलीमुखान् ।। ३३५ ॥ द्वावप्यमर्षणौ द्वावप्यूर्जितौ द्वावपि स्थिरौ । विविधैरायुधैर्युद्धं विदधाते चिराय तौ ॥३३६ ।। दोर्वीर्येणाऽविजय्यं तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वेभमिव माहिष्मतीपतिम् ।। ३३७ ॥ तं प्रशंसन्महावीर्य जित्वाऽपि जितमान्यथ । अनुत्सिक्तो दशग्रीवः स्कन्धावारेऽनयत्स्वयम् ।।३३८ ।। सभायां यावदासीनस्तस्थौ हृो दशाननः । चारणश्रमणस्तावच्छतबाहुः समाययौ ।।३३९ ।। सिंहासनात्समुत्थाय त्यक्त्वा च मणिपादुके । अभ्युत्तस्थौ दशास्यस्तं पयोदमिव बर्हिणः ।। ३४०॥ पपात पादयोस्तस्य पञ्चाङ्गस्पृष्टभूतलः । रावणो मन्यमानस्तमर्हद्गणधरोपमम् ।।३४१ ।। आसने चाऽऽसयामास तं मुनि स्वयमर्पिते । प्रणम्य च दशग्रीवः स्वयमामुपाविशत् ।। ३४२ ।। १ अष्टापदमृगान् । २ बाणान् । ३ विजेतुमशक्यम् । ४ आत्मानं जितमन्येनेति यावत् मन्यते इति तथा । ५ गवरहितः । ६ मयूरः ।
SASARAHASRASHRSHRSS
केनचित्पूजा| विघ्नकर्तृस्वरूपं रावणायोक्तं सहस्रांशुरावणयोर्युद्धम्, चारणश्रमणयोरागमनम् ।
।।३६ ।।