________________
त्रिषष्टिशलाकापुरुषचरिते
॥३५॥
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
परस्तादस्ति किं कोऽपि मिथ्यादृष्टिर्नराधिपः ? । किंवा विद्याधरः ? कश्चिदसुरो वा सुरोऽथवा ? ॥३१४ ॥ अथ विद्याधरः कश्चिदाचख्यौ दशमौलये । इतः पुरस्तादस्त्युच्चैर्देव ! माहिष्मती पुरी ।। ३१५ ।। तस्यां नाम्ना सहस्रांशुः सहस्रांशुरिवापरः । सहस्रशो नृपैः सेव्यः पार्थिवोऽस्ति महाभुजः ।। ३१६ ॥ सेतुबन्धेन रेवायां वारिबन्धं व्यधादसौ । जलक्रीडोत्सवकृते किमसाध्यं महौजसाम् ? ।। ३१७ ।। समं राज्ञीसहस्रेण सहस्रांशुरसावितः । वशाभिर्वरदन्तीव सुखं क्रीडति वारिभिः ।। ३१८ ।। आत्मरक्षा लक्षसङ्ख्या द्वयोरपि हि तीरयोः । संवर्मिता उदस्त्राश्च तिष्ठन्त्यस्य हरेरिव ।। ३१९ ॥ अदृष्टपूर्वोऽवष्टम्भः कोऽप्यस्याऽप्रतिमौजसः । शोभामात्र यथा तेऽपि यदि वा कर्मसाक्षिणः ।। ३२० ।। क्षुभितं जलदेवीभिर्यादोभिश्च पलायितम् । जलक्रीडाकराघातैरूर्जितैस्तस्य दोष्मतः ।। ३२१ ॥ इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन च । तेन पर्यस्यमाणत्वात् काममुल्लुठितं पयः ।। ३२२ ।। रोदसी प्लावयित्वोभे वेगाद्वारीदमुद्धतम् । इह ते प्लावयामास देवपूजां दशाननः ।। ३२३ ।। पश्यैतानि च तत्स्त्रीणां निर्माल्यानि दशानन ! । रेवातीरे तरन्त्युच्चैस्तदभिज्ञानमादिमम् ।।३२४ ।। तदङ्गनाजनस्याऽङ्गरागैर्मृगमदादिजैः । इदमत्याविलं वारि दुर्वारं वीरवारण! ॥३२५ ॥ इति तद्गिरमाकर्ण्य प्राप्याऽऽहुतिमिवाऽनलः । उद्दिदीपेऽधिकं चैवमुवाच च दशाननः ।। ३२६ ॥ अरे मुर्मूषुणा तेन वारिभिःस्वाङ्गदूषितैः । दूषिता देवपूजेयं देवदूष्यमिवाऽअनैः ॥ ३२७ ।। तद्यात राक्षसभटास्तं पापं भटमानिनम् । बद्ध्वा समानयत भो ! मत्स्यमानायिका इव ।। ३२८ ।। १ऊर्ध्वशस्त्राः । २ प्रारम्भः । ३ मुच्यमानत्वात् । ४ चिह्नम् । ५ अतिपङ्किलम् । ६ धीवराः ।
सहस्रांशुरावणयो
युद्धम् ।
SAHARHARASHRSHABHASHAINS
॥३५ ।।