SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४॥ | सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् । तारायै साहसस्य चिन्ता, कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम् । विन्ध्यशैलादुत्तरन्तीं ददर्शाऽथ दशाननः ।। ३०१ ।। ॥त्रिभिर्विशेषकम् ॥ रोधस्युवास रेवायाः ससैन्यो दशकन्धरः । सिन्धुरग्रामणीप॒थसमावृत इवोद्धरः ।। ३०२ ॥ सोऽथ तस्यां कृतस्नानो वसानो धौतवाससी । अर्हबिम्बं रलमयं न्यस्य पट्टे मणीमये ।। ३०३ ।। रेवाम्भोभिः स्नापयित्वा तदम्भोजैर्विकासिभिः । समारेभे पूजयितुं समाधिसुदृढासनः ।। ३०४ ।। ॥युग्मम् ।। ततश्च पूजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादब्धिवेलेव महापूर समाययौ ॥ ३०५ ।। उन्मूलयन्मूलतोऽपि गुल्मानिव महीरुहान् । तटीनामुन्नतानामप्युपरि प्रासरत्पयः ।। ३०६ ।। आस्फोटयंस्तटाघातैस्तरीस्तटनियन्त्रिताः । विष्वक्छुक्तिपुटानीवाऽभ्रंलिहा वीचिपङ्क्तयः ।। ३०७ ।। रोधोगन्मिहतोऽपि पातालकुहरोपमान् । स पूरः पूरयामास भक्ष्यं कुक्षिम्भरीनिव ।। ३०८ ।। ॥त्रिभिर्विशेषकम् ॥ समन्तादन्तरीपाणि स्थगयामास सा नदी । ज्योतिश्चक्रविमानानि चन्द्रज्योत्स्नेव पार्वणी ॥ ३०९ ॥ मत्स्यानुच्छादयामास प्रोच्छलद्भिर्महोर्मिभिः । पूरो महावात इव वेगवान् द्रुमपल्लवान् ।। ३१०॥ तत्फेनिलं सावकरं पूरवारि रयागतम् । अर्हत्पूजामपानैषीहशकण्ठस्य कुर्वतः ।। ३११ ॥ तेन पूजापहारेण शिरच्छेदाधिकेन सः । जातकोपो दशग्रीवः साक्षेपमिदमभ्यधात् ॥३१२ ।। अरे रे ! केन वारीदं दुर्वारमतिवेगतः । अर्हत्पूजान्तरायायाऽमुच्यताऽकारणारिणा ।। ३१३ ।। १ तीरे । २ गजनायकः । ३ तृणगुच्छान् । ४ नावः । ५ द्वीपानि । ६ छादयामास । ७ सपङ्कम् । ८ अकारणशत्रुणा । रावणस्य दिग्यात्रा, रेवातीरे दशाननस्य अर्हत्पूजायां विघ्नः । ॥३४ ॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy