________________
त्रिषष्टिशलाकापुरुषचरिते
॥३३॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अभिलाषविप्रलम्भात् साहसोऽपि दिने दिने । अङ्गारचुम्बित इव न प्राप क्वाऽपि निवृतिम् ।।२८६ ।। तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गद-जयानन्दावङ्गजौ दिग्गजोर्जितौ ।। २८७ ।। स चाऽपि साहसगतिस्तारायामनुरागवान् । मन्मथोन्मथ्यमानात्मा चिन्तयामासिवानिदम् ।। २८८ ।। चुम्बिष्यामि कदा तस्या मृगशावकचक्षुषः । पक्वबिम्बाधरदलच्छदनं वदनाम्बुजम् ? || २८९ ।। कदा स्प्रक्ष्याम्यहं तस्याः कुचकुम्भौ स्वपाणिना ? । कदा च तौ करिष्यामि गाढालिङ्गनवामनौ ? ।। २९० ॥ बलेनाऽपिच्छलेनाऽपि तां हर्ताऽस्मीति चिन्तयन् । सस्मार शेमुषी विद्यां रूपस्य परिवर्तिनीम् ।।२९१ ।। गत्वा च क्षुद्रहिमवद्गिरौ स्थित्वा गुहान्तरे । तां साधयितुमारेभे चक्राङ्कनृपनन्दनः ।। २९२ ।। इतश्च पुर्या लङ्काया दिग्यात्रायै दशाननः । विकर्तनः पूर्वशैलतटादिव विनिर्ययौ ।। २९३ ।। विद्याधरान्नरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पाताललां नाम पुरी ययौ ।। २९४ ।। तत्र चन्द्रणखाभर्ना खरेणाऽखरभाषिणा । प्राभृतैर्भूतकेनेव निभृतं सोऽभ्यपूज्यत ॥२९५ ।। रावणेन सहाऽचालीत् खर इन्द्रजिगीषया । विद्याधराणां सहस्रैश्चतुर्दशभिरावृतः ।। २९६ ।। ततः सुग्रीवराजोऽपि रक्षोराजस्य दोष्मतः । अन्वचालीत्ससैन्योऽपि वायोरिव विभावसुः ।। २९७ ।। अनेकपृतनाच्छन्नरोदसीको दशाननः । पयोराशिरिवोद्भ्रान्तः प्रययावस्खलद्गतिः ।।२९८ ।। कूजन्मरालमालाभिराबद्धरसेनामिव । पुलिनोळ वुिपलया नितम्बेनेव शोभिताम् ।। २९९ ।। अलकानिव बिभ्राणां तरङ्गैरतिभङ्गुरैः । कटाक्षानिव मुञ्चन्तीं शफरोद्वर्तनैर्मुहुः ।। ३०० ॥ १ अभिलाषविरहात् ।२ सूर्यः । ३ मृदुभाषिणा । ४ भृत्येनेव । ५ अग्निः । ६ रसना कटिमेखला ।
रावणस्य दिग्यात्रा।
।।३३ ।।