________________
त्रिषष्टिशलाका
पुरुषचरिते
| सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
॥३२॥
अर्हगुणस्तुतिमयं साधु गीतमिदं ननु । निजभावानुरूपं ते तेन तुष्थेऽस्मि रावण! ।। २७१ ।। अर्हगुणस्तुतेर्मुख्यं फलं मोक्षस्तथाऽप्यहम् । अजीर्णवासनस्तुभ्यं किं यच्छामि वृणीष्व भोः !।। २७२ ।। रावणोऽप्यभ्यधादेवं देवदेवगुणस्तवैः । युक्तं तुष्टोऽसि नागेन्द्र स्वामिभक्तिर्हि सा तव ।। २७३ ।। यथा तव ददानस्य स्वामिभक्तिः प्रकृष्यते । तथा ममाऽऽददानस्य सा काममपकृष्यते ।। २७४ ।। भूयोऽप्युवाच नागेन्द्रः साधुमानद ! रावण! । विशेषतोऽस्मि तुष्टस्ते निराकाङ्क्षतयाऽनया ।। २७५ ।। उक्त्वेत्यमोघविजयां शक्तिं रूपविकारिणीम् । सोऽदाद्विद्यां रावणाय जगाम च निजाश्रयम् ।। २७६ ।। तीर्थनाथान्नमस्कृत्य नित्यालोकपुरेऽगमत् । व्यूह्य रत्नावलीं लङ्कामाजगाम दशाननः ।। २७७ ।। वालिनोऽपि तदोत्पेदे केवलज्ञानमुज्वलम् । केवलज्ञानमहिमा विदधे च सुरासरैः ।। २७८ ।। क्रमेण कर्मणां सोऽथ भवोपग्राहिणां क्षयात् । सिद्धानन्तचतुष्कोऽगात् पदं तदपुनर्भवम् ।। २७९ ॥ इतश्च वैतादयगिरौ पुरे ज्योतिःपुराभिधे । बभूव नाम्ना ज्वलनशिखो विद्याधरेश्वरः ।। २८० ।। तस्याऽभूच्छ्रीमती देवी श्रीमती रूपसम्पदा । तस्यां च दुहिता जज्ञे तारा तारविलोचना ।। २८१ ।। तामेकदा तु चक्राङ्कविद्याधरनृपात्मजः । ददर्श साहसगतिः स्मरातः सहसाऽप्यभूत् ।। २८२ ।। ज्वलनं याचयाञ्चक्रे तां साहसगतिर्नरैः । वानरेन्द्रश्च सुग्रीवो रत्ने हि बहवोऽर्थिनः ।। २८३ ।। अभिजातौ द्वावपीमौ रूपवन्तौ महौजसौ । तत्कस्मै दीयते कन्या पप्रच्छ ज्ञानिनं पिता ॥ २८४ ।। अल्पायुः साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ स ताम् ।। २८५ ।। १ साधूनां मानं ददातीति तत्सम्बोधनम् । २ लक्ष्मीमती । ३ दीर्घलोचना । ४ कुलिनौ ।
प्रसन्नधरणेन रावणाय अमोघविजयाविद्याप्रदानम्, वालिनः केवल ज्ञानम्, तारायै द्वयोः प्रार्थना ।
॥३२ ॥