________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व | द्वितीयः सर्गः रामलक्ष्मणरावण
॥३१॥
चरितम् ।
तस्य चाऽऽरटनं दीनं श्रुत्वा वाली कृपापरः । तं मुमोचाऽऽशु तत्कर्म शिक्षामात्राय न क्रुधा ।। २५६ ।।। निःसृत्य दशकण्ठोऽथ निःप्रतापोऽनुतापवान् । उपेत्य वालिनं नत्वा व्याजहारेत्युदञ्जलिः ।। २५७ ।। भूयो भूयोऽपराधानां कर्ताऽहं त्वयि निस्त्रपः । उत्कृपस्त्वं च सोढाऽसि महात्मन् ! शक्तिमानपि ।। २५८ ॥ मन्ये मयि कृपां कुर्वन्नुर्वी प्रागत्यजः प्रभो ! । न त्वसामर्थ्यतस्तत्तु नाऽज्ञासिषमहं पुरा ।। २५९ ॥ अज्ञानान्नाथ ! तेनेयं स्वशक्तिस्तोलिता मया । अद्रिपर्यसने यलं कलभेनेव कुर्वता ॥२६० ॥ ज्ञातमन्तरमद्येदं भवतश्चाऽऽत्मनोऽपि च । शैलवल्मीकयोर्यादृग्यादृग्गरुडभासयोः ।।२६१ ॥ दत्ताः प्राणास्त्वया स्वामिन्मृत्युकोटिं गतस्य मे । अपकारिणि यस्येयं मतिस्तस्मै नमोऽस्तु ते ।। २६२ ।। दृढभक्त्येति भाषित्वा क्षमयित्वा च वालिनम् । त्रिश्च प्रदक्षिणीकृत्य नमश्चक्रे दशाननः ॥२६३ ।। तादृङ्माहात्म्यमुदिताः साधु साध्विति भाषिणः । उपरिधद्वालिमुनेः पुष्पवृष्टिं व्यधुः सुराः ।। २६४ ।। प्रणम्य वालिनं भूयस्तच्छैलमुकुटोपमे । जगाम रावणश्चैत्ये भरतेश्वरनिर्मिते ।। २६५ ॥ चन्द्रहासादिशस्त्राणि मुक्त्वा सान्तःपुरः स्वयम् । अर्हतामृषभादीनां पूजां सोऽधविधां व्यधात् ॥२६६ ॥ समाकृष्य स्नसां तन्त्री प्रमृज्य च दशाननः । महासाहसिको भक्त्या भुजवीणामवादयत् ।। २६७ ।। उपवीणयति ग्रामरागरम्यं दशानने । गायत्यन्तःपुरे चाऽस्य सप्तस्वरमनोरमम् ॥२६८ ।। चैत्यवन्दनयात्रायै धरणः पन्नगेश्वरः । तत्राऽऽययावर्हतश्च पूजापूर्वमवन्दत ।। २६९ ।। ।। युग्मम् ।। अर्हगुणमयैर्गीतैः करणधुवकादिभिः । गायन्तं वीणया प्रेक्ष्य रावणं धरणोऽब्रवीत् ।। २७० ।। १ अनुतापः पश्चात्तापस्तद्वान् । २ निर्लज्जः । ३ अधिकदयावान् । ४ भासः गृधः । ५ मृत्योरग्रम् । ६ स्नायुम् । ७ वीणां वादयति सति ।
रावणस्य वालिवन्दनम् ।
।।३१ ।।