________________
त्रिषष्टिशलाकापुरुषचरिते
॥३०॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
नन्वद्याऽपि स एवाऽस्मि त एव मम बाहवः । कृतप्रतिकृतं तत्ते प्राप्तकालं करोम्यहम् ।। २४२ ।। सचन्द्रहासं मामूढवा यथाऽभ्राम्यस्त्वमब्धिषु । तथा त्वां साद्रिमुत्पाट्य क्षेप्यामि लवणार्णवे ॥२४३ ।। एवमुक्त्वा विदार्य क्ष्मामष्टापदगिरेस्तले । प्रविवेश दशग्रीवश्च्युतो दिव इवाऽशनिः ।। २४४ ॥ विद्यासहस्रं स्मृत्वा च युगपद्दशकन्धरः । धरं दुर्धरमुद्दधे तं दोर्बलमदोद्धरः ।। २४५ ॥ तडत्तडितिनिर्घोषं वित्रस्तव्यन्तरामरम् । झलज्झलितिलोलाब्धिपूर्यमाणरसातलम् ।। २४६ ॥ खंडत्खडितिबिभ्रश्यद्ग्रावक्षुण्णवनद्विपम् । कडत्कडितिनिर्भग्ननितम्बोपवनद्रुमम् ।। २४७ ॥ गिरि तेनोद्धृतं ज्ञात्वाऽवधिना स महामुनिः । अनेकलब्धिनद्यब्धिरिति दध्यौ विशुद्धधीः ।। २४८ ।।
॥त्रिभिर्विशेषकम् ॥ आः ! कथं मयि मात्सर्यादयमद्याऽपि दुर्मतिः । अनेकप्राणिसंहारमकाण्डे तनुतेतराम् ? || २४९ ।। भरतेश्वरचैत्यं च भ्रंशयित्वैष सम्प्रति । यतते तीर्थमुच्छेत्तुं भरतक्षेत्रभूषणम् ।। २५० ।। अहं च त्यक्तसङ्गोऽस्मि स्वशरीरेऽपि निःस्पृहः । रागद्वेषविनिर्मुक्तो निमग्नः साम्यवारिणि ।। २५१ ।। तथाऽपि चैत्यत्राणाय प्राणिनां रक्षणाय च । रागद्वेषौ विनैवैनं शिक्षयामि मनागहम् ॥ २५२ ।। एवं विमृश्य भगवान् पादाङ्गुष्ठेन लीलया । अष्टपदाद्रेर्मूर्धानं वाली किञ्चिदपीडयत् ।। २५३ ।। मध्याह्नदेहच्छायावत् पयोबाह्यस्थकूर्मवत् । अभितः सङ्घचद्गात्रो दशास्यस्तत्क्षणादभूत् ।। २५४ ।। अतिभङ्गुरदोर्दण्डो मुखेन रुधिरं वमन् । अरावीद्रावयन्नुर्वी रावणस्तेन सोऽभवत् ।। २५५ ॥ १ पर्वतम् । २ खड खड इति शब्देन पतद्भिरश्मभिः क्षुण्णा वनगजा यस्मिंस्तमिति गिरिविशेषणमेवं पूर्वोत्तराणि विशेषणान्यपि ।
दशाननस्य वालिनि पर्वतप्रक्षेपणारम्मः तीर्थरक्षणाय वालिना तच्छिक्षादानम् ।
॥३०॥